PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हरिकेशः

सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्सम्पश्यन्विश्वा भुवनानि गोपाः ॥१॥
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् ।
स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥२॥
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥३॥
विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् ।
तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥४॥
विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः ।
यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥५॥
सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् ।
प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥६॥ऋ. १०.१३९.१

अस्य सूक्तस्य ऋषिः देवगन्धर्वः विश्वावसुः अस्ति, देवता सविता, (४-६ आत्मा) अस्ति।

तैत्तिरीयसंहिता ४.४.३ मध्ये पञ्चचूडासंज्ञकानां इष्टकानां स्थापनाय मन्त्राणां कथनमस्ति - अयम् पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश्च रथौजाश् च सेनानिग्रामण्यौ .....इति। पञ्चचूडासंज्ञकानां इष्टकानां स्थापनस्य पुरस्तात् नाकसदिष्टकानां स्थापनं भवति। सायणभाष्यानुसारेण नाकसदा गृहस्थानीयाः सन्ति, पञ्चचोडा जायास्थानीया। नाकसदामुपरि छिद्रावरणार्थत्वात् एता इष्टकाः चोडा इत्युच्यन्ते। पुराणेषु सार्वत्रिकरूपेण संदर्भस्य आरम्भः सुषुम्नासंज्ञकस्य सूर्यरश्मितः भवति (ब्रह्माण्डपुराणम् १.२.२४.६५ ) यः शशिनमेधति। किं सुषुम्ना नाकसदेष्टकायाः रूपमस्ति, अन्वेषणीयः। हरिकेशरश्मिविषये पुराणेषु कथनमस्ति यत् अयं ऋक्षाणां, नक्षत्राणां योनिरस्ति। नायं कथनं बोधगम्यः। ऋग्वेद १०.१३९.१ अनुसारेण अयं सवितादेवः अस्ति। मत्स्य १८०, स्कन्द ४.१.३२.४६  आदि पुराणेषु यः वर्णितमस्ति, तस्यानुसारेण हरिकेशः शिवस्य पिंगलगणः अस्ति। एकः छन्दःशास्त्रस्य रचयिता पिङ्गलः अप्यस्ति। छन्दस्य रचनायाः उद्देश्यं अस्ति – यत्र ऊर्जायाः छिद्रेभ्यः च्यवनं अस्ति, तस्य उपचारः। पञ्चतन्त्रानुसारेण २.३५ पिङ्गलस्य व्यापादनं मकरेण भवति। मकर अर्थात् ओंकारस्य अ(आदाने), उ(संग्रहणे, रक्षणे) एवं म (विसर्जने) मध्ये या तृतीया मात्रा मकारः अस्ति, तया विकृतायाः ऊर्जायाः विसर्जनं भवति। ऋग्वेदे १०.१३९.६ कथनमस्ति – इन्द्रो दक्षं परि जानादहीनाम्। अयं संकेतमस्ति यत् अस्य सूक्तस्य उद्देश्यं अस्ति यत् दक्षता शतप्रतिशतं भवेत्। आधुनिकविज्ञानानुसारेण अयं संभवं नास्ति। किन्तु अयं प्रतीयते यत् अस्य सम्पूर्णसूक्तस्य उद्देश्यं सम्पूर्णदक्षतायाः प्राप्तिः अस्ति।

पृथिव्यामुपरि सूर्यस्य येषां रश्मीनां पतनं भवति, तेषां सर्वश्रेष्ठगोपनं ओषधिरूपेण भवति। हरिकेशरश्मीनां गोपनं केन प्रकारेण भवेत्, अयं प्रश्नः। सूक्तस्य प्रथममन्त्रानुसारेण पूषासंज्ञकस्य देवस्य माध्यमे गोपनस्य अयं कार्यं सम्पन्नं भवति। पूषादेवः प्रपिष्टस्य भक्षणं कृत्वा तस्य नवीनरूपेण  प्राकट्यस्य सामर्थ्यं दधाति। या विकृततमा ऊर्जा अस्ति, सापि प्रपिष्टस्य रूपमस्ति।

सूक्तस्य ऋषिः विश्वावसुः अस्ति। यथा डा. कल्याणरमणेन विवेचितमस्ति, महाभारते (आरण्यकपर्व २७९.४२) कथनमस्ति यत् रामायणे यः कबन्धस्य आख्यानमस्ति, तत्र कबन्धस्य सात्त्विकरूपं विश्वावसुः गन्धर्वः अस्ति। शापकारणेन सः कबन्धः अभवत् यः शिरोहीनः अस्ति, किन्तु अन्नग्रहणाय तस्य बाहू अतिविस्तृतौ स्तः। अत्र बाहू कर्तृकशक्तेः प्रतीकं स्तः, अयं प्रतीयते।

जैमिनीय ब्राह्मण ३.३१२ कबन्धः आथर्वणः व्यूहात्मकस्य द्वादशाहस्य उपदेशं ददाति। इतः पूर्वं समूहात्मकस्य द्वादशाहस्य एव अस्तित्वं आसीत्। व्यूहस्य अर्वाचीनसंज्ञा मैट्रिक्स अस्ति। यावत् देवानां समूहमात्रं भवति, तावत् तेभ्यः पृथक् – पृथक् आहुतिः संभवं नास्ति। अर्वाचीनविज्ञाने संभवतः अयं फर्मी-डिराक एवं बोस सांख्यिकी शब्देन आविर्भवति। कर्मकाण्डे अयं छन्दःरूपेण एवं स्तोमरूपेण आविर्भवति, अयं प्रतीयते। एकलप्रकारस्य सांख्यिकी शतप्रतिशतदक्षता दातुं समर्थं नास्ति।

स्कन्दपुराणे ४.१.३२.४६ कथा अस्ति यत् पूर्णभद्रसंज्ञकः यक्षः शिवाराधनतः हरिकेशसंज्ञकस्य पुत्रस्य प्राप्तिं करोति। हरिकेशः तपसा शिवस्य पिंङ्गलः गणः भवति। ऋग्वेद १०.१३९ सूक्तस्य ऋषिः विश्वावसुः अस्ति एवं देवता हरिकेशः अस्ति। अयं प्रतीयते यत् यः पूर्णभद्रः अस्ति, सैव विश्वावसुः अस्ति। भद्रशब्दोपरि टिप्पणी पठनीया अस्ति। प्रश्नमस्ति – केन कारणेन पुराणेषु कथनमस्ति यत् सूर्यस्य हरिकेश रश्मिः नक्षत्राणां योनिः अस्ति। शतपथब्राह्मणे ११.६.३.६ कथनमस्ति यत् चन्द्रमा एवं नक्षत्राणि वसूनां अन्तिमौ स्तः (कतमे वसव इति। अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव )। अतएव, विश्वावसोः पराकाष्ठा नक्षत्राणां उपरि भद्रताप्राप्तिः अस्ति।

कबन्धोपरि टिप्पणी

संदर्भाः

राज्ञ्यसि प्राची दिगिति पञ्च नाकसदः प्रतिदिशमेकां मध्ये । तासु पुरीषमध्यूह्यायं पुरो हरिकेश इति पञ्चचोडा अभ्युपदधाति । द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम् आप.श्रौ.सू. १७.३.७

आत्मा वै नाकसदो मिथुनं पञ्चचूडा .....आत्मा वै नाकसदः प्रजा पञ्चचूडा......या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा – माश ८.६.१.१४