Make your own free website on Tripod.com

PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हविः

*अथ हविरावपति । अग्नेस्तनूरसि वाचो विसर्जनमिति यज्ञो हि तेनाग्नेस्तनूर्वाचो विसर्जनमिति यां वा अमूं हविर्ग्रहीष्यन्वाचं यच्छत्यत्र वै तं विसृजते ..... अथ हविष्कृतमुद्वादयति । हविष्कृदेहि हविष्कृदेहीति वाग्वै हविष्कृत् श- १ । १ । ४ । ११ ।।

*अथ हविरधिवपति । धान्यमसि धिनुहि देवानिति धान्यं हि देवान्धिनवदित्यु हि हविर्गृह्यते - १.२.१.[१८]

*तद्यदेवं पिनष्टि । जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति माश १.२.१.२०

*त उ हाप्त्या ऊचुः । अत्येव वयमिदमस्मत्परो नयामेति कमभीति य एवादक्षिणेन हविषा यजाताऽइति तस्मान्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या उ ह तस्मिन्मृजते योऽदक्षिणेन हविषा यजते माश १.२.३.[४]

*हवींषि ह वा आत्मा यज्ञस्य स यदेव पुरस्ताद्धविषां जुहोति तत्पुरस्ताच्चक्षुषी दधाति माश १.६.३.३९

*सोमाहुतिरेवान्याज्याहुतिरन्या तत एषा केवली यत्सोमाहुतिरथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुस्तदाज्यमेवैतत्करोति । श. १ । ७ । २ । १० ।।

*त्र्यम्बकहविर्यागः ते (पुरोडाशाः) वा अक्ताः स्युः । अक्तं हि हविस्त उ वा अनक्ता एव स्युरभिमानुको ह रुद्रः पशून्त्स्याद्यदञ्ज्यात्तस्मादनक्ता एव स्युः - माश ,,,

अक्ताः आज्येनाभिघारिताः । प्रच्युतं वा एतदस्माल्लोकादगतं देवलोकं यच्छृतं हविरनभिघारितम् सायणभाष्यम्

*शिर एवास्य (पुरुषस्य) हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम। माश , ५.३,

*स यद्यनु निर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति - माश ११, , , ; (तु काठ ३७,१२)

*तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुः माश ११.१.४.४

*मासा हवींषि।.......अर्धमासा हविष्पात्राणि। -  माश ११.२.७.४

*चतुर्होतारः -- ..... वाचस्पतिर् होता , मन उपवक्ता , प्राणो हविः..... मै १.९.१,

*अभिघार्या३ नाभिघार्या३, इति मीमांसन्ते , यदभिघारयेद् रुद्रायास्य पशूनपिदध्यात् , तन् न सूर्क्ष्यं , अभिघार्या एव , न हि हविरनभिघृतमस्ति । मै , १०, २०

*यस्य वै हविरप्रतिष्ठितमप्रतिष्ठितः सो , अप्रतिष्ठिता अस्य त्र्यम्बका मै १.१०.२०

*हविर्वै दीक्षितः, यदा वै हविर्यजुषा प्रोक्षत्यथ हविर्भवति, यद्यजुषा स्नपयति हविरेवैनं अकर्, मै ३.६.२, ३.६.६, काठ २३.१, क ३५.७, तैआ ५.२.२

*प्राणापानौ वै पृषदाज्यं, आत्मा हवि , र्यत्पृषदाज्यं जुहोति , आत्मन् वा एतत् पशोः प्राणापानौ दधाति मै  ३.१०.४

*आसाद्य वै हविः सामिधेनीरन्वाहुरेतत् खलु वा एतर्हि हविर्यत् सोमस्तस्मात् सोमं उपावहृत्यान्वाह - मै ४.५.३

*अग्ने महान् असि ब्राह्मण भारत इति अग्निर् वै भरतः स वै देवेभ्यो हव्यम् भरति अथ यद् यजमानस्य आर्षेयम् आह न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति तस्माद् अस्य आर्षेयम् आह - कौब्रा. ३.२ तैआ २.१७.२, ३.१.१

*वाक् च वै मनश्च हविर्धाने । वाचि च वै मनसि च इदम् सर्वम् हितम्
तद् यद्द् हविर्धाने प्रवर्तयन्ति सर्वेषाम् एव कामानाम् आप्त्यै कौ ९.३

*अयं वै लोको दक्षिणं हविर्धानम्। प्रतिष्ठा वा अयं लोकः  कौ ९.४

*अकृत्स्नैव वा एषा देवयज्या यद्धविर्यज्ञः अथ एषा एव कृत्स्ना देव यज्ञा यत् सौम्यो अध्वरः तस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति हविर् यज्ञ इति कौ० १० ।।
*
पशवो वै हविष् पङ्क्तिः पशूनाम् एव आप्त्यै तानि वै पञ्च हवींषि भवन्ति दधि धानाः सक्तवः पुरोडाशः पयस्य इति ..... अथ वै हविष्पङ्क्तिः प्राण एव   कौ० १३ ।।

*तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्ष हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो तैआ २.१४.१

*वाग्जुहूर्मन उपभृद्धृतिर्ध्रुवा प्राणो हविः सामाध्वर्युः स वा एष यज्ञः प्राणदक्षिणोऽनन्तदक्षिणः समृद्धतरः तैआ २.१७.२

*वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि, इति - तैआ ३.६.१

*महाहविर्होता । सत्यहविरध्वर्युः, अच्युतपाजा अग्नीत् । - तैआ ३.४.५

*वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः तैआ ३.१२.३

. हविः पर्यग्निकृतः (सोमः) । काठ ३४,१५ ।

६ हविरुपावहृतः (सोमः) । काठ ३४, १५ ।

. हविर्वा एतद्यदग्निहोत्रम् । काठ ६, ४ ।।

तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्याम् (देवतायाम्) अशनापिपासे भवतः। - ऐआ २.४.२, ऐउ १.२.५

शिरो वा आघारः आत्मा हविः मै ३.१०.४

आत्मा वै हविः काठ ८.५

ऐन्द्रावैष्णवं हविः काठ १२.२

धानाः करंभः परिवापः पुरोडाशः पयस्येत्येष वै यज्ञो हविष्पंक्तिः....... हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्रस्यापूप इति हविष्पंक्त्या यजति । ऐ० २ । २४ ।।

न ह वा अव्रतस्य देवा हविरश्नन्ति तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति। ७.११, कौ ३.१

मनो होता तै २.१.५.९

यजमानो हविः काठ ६.४, क ४.३

 

हविर्धान

१. शिर एवास्य (पुरुषस्य) हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम। माश , ५.३,

२. एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । माश ३, , , २३ ।

३. तस्य (पुरुषस्य ) शिर एव हविर्धाने । कौ १७, ७ ।।

४. ( सोमः ) द्यौर हविर्धाने । काठ ३४,१४ ।।

५. शिर एवास्य ( यज्ञस्य ) हविर्धानम् । माश ३, ,,२ ।

६. हविर्वै हविर्धाने । क ४०, १ ॥

इन्द्रो हविर्धाने (सोमः) तैसं ४.४.९.१

गायत्रं साम हविर्धानम् मै ३.४.४, काठ २१.१२

घर्म या ते दिवि शुक्। या गायत्रे छन्दसि। या ब्राह्मणे या हविर्धाने तां त एतेनावयजे। - तैआ ४.११.१

दिवं ते धूमो गच्छत्विति हविर्धानात्तेनान्तरिक्षं ज्योतिः मै ३.९.४

द्यौर्हविर्धानम् तै २.१.५.१

प्राचीनवंशं हविर्धानं मिनोति, ऊर्ध्वा हि द्यौः मै ३.८.९

हविर्धानं दिवः (देवाः प्रत्यकुर्वत) मै ३.८.१, काठ २४.१०, क ३८.३

द्यावापृथिवी वै देवानां हविर्धाने आस्ताम्। ऐ १.२९

यद्धविर्धानयोर् नाराशंसा सीदन्ति तत् पितृषु जुहोति माश ३.६.२.२५

शिरो वा एतद्यज्ञस्य यद्धविर्धानम् काठ २५.८

वैष्णवं वै हविर्धानम् मै ३.८.७, काठ २५.८, क ४०.१, माश ३.५.३.१५

वैष्णव्या हविर्धानम् (उपचरति) मै ४.६.५

शिरो हविर्धानम् मै ३.८.८, ४.५.९

अदितिस्सदोहविर्धानाभ्याम् (समागच्छतु) काठ ९.१०

एष वै हविर्धानी यो दर्शपूर्णमासयाजी .....य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति तैसं २.५.६.३

अथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम । श० ३ । ५ । ३। २

वैष्णवं हि हविर्धानम् । श० ३। ५ । ३ । १५

एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । श- ...२३ ।।

शिर एवास्य ( यज्ञस्य) हविर्धानम् श ३। ५ ।३ ।२।।
शिरो वा एतद्यज्ञस्य यद्धविर्धाने । कौ ११.

तस्य (पुरुषस्य) शिर एव हविर्धाने । कौ १७.७ ।

द्यौर्हविर्धानम् । तै० २ । १ । ५ । १ ।।

द्यावापृथिवी वै देवानां हविर्धाने आस्ताम् । ऐ० १ । २९ ।।
 

हविर्यज्ञः

अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञ । गो० उ० २ । १७ ।।
अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धो ऽत्र सप्तम इत्येते हविर्यज्ञाः । गो- पू० ५ । २३ ।।

१ चत्वारो ह्येते हविर्यज्ञस्यर्त्विजः । ब्रह्मा होताऽध्वर्युरग्नीत् । तै. ३ । ३ । ८ । ७-८ ।।

हविर्यज्ञैर्वै देवा इमं लोकमभ्यजयन्नन्तरिक्षं पशुमद्भिः सोमैरमुम्। तां १७ ।१३ । १८ ।।

हविष्पात्राणि

अर्धमासा हविष्पात्राणि । श० ११ । २ । ७ । ४ ।।

हविष्मन्तः ऋ २ । २७ । १)

पशवो वै हविष्मन्तः । श १ । ४ ।१ । ९ ।।

अर्द्धमासा हविष्मन्तः । गो.पू. .२३

हविष्यः

यो व ऊर्मिर्हविष्य इति यो ऊर्मिर्यज्ञिय इत्येवैतदाह । श ३ । ९ । ३ । २५ ।।

हव्यदातिः ऋ ६। १६ । १० । यजमानो वै हव्यदातिः । श० १ ।४ । १ । २४ ।।

हव्यवाड्

वायुर्वै तूर्णिर्हव्यवाड्वायुर्देवेभ्यो हव्यं वहति । ऐ० २ । ३४ ।।
,, एष हि हव्यवाड्यदग्निः । श० १ । ४ । १ । ३९ ।।

हव्यवाहनः

एष हि हव्यवाहनो यदग्निः । श० १ । ४ । १ । ३९ ।।