PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

उपरोक्त चित्र माध्यन्दिन शतपथ ब्राह्मण(सायण भाष्य सहित) की भूमिका से साभार उद्धृत किया गया है।

खादिरो बाहुमात्रस्तु जुहूस्रुक्संज्ञकः स्रुवः।अरत्निमात्रो हंसास्यो वर्तुलोऽङ्गुष्ठपर्ववत्। अर्धपर्वप्रणाल्या च युक्तो नासाकृतिर्भवेत्। उपभृत्स्रुक् ध्रुवा स्रुक् च पुष्करस्रुक् तथैव च। अग्निहोत्रस्य हवनी तथा वैकङ्कतः स्रुवः। एते चान्ये च बहवः स्रुवभेदाः प्रकीर्तिताः। वर्तुलास्याः शङ्कुमुखाः पर्वखाताः समानकाः॥

जुहू - स्रुवा

 

स्रुक्

जुहूपभृद्ध्रुवा इति तिस्रः स्रुच उच्यन्ते। खादिरः स्रुवो भवति। पर्ण(पलाश)मयी जुहूर्भवति। आश्वत्थी उपभृत्। वैकङ्कती ध्रुवा भवति।

एतद्वै स्रुचां रूपम्(तै.सं. ३.५.७.२)। जुहूपभृद्ध्रुवा प्रचरण्यग्निहोत्रहवण्यादयः सर्वाः स्रुचः बाहुप्रमाणाः पाणिप्रमाणमुखाः त्वक् प्रदेशे

बिलवत्यः(त्वक्-पर्यन्तबिलाः) हंसमुखसदृशैकप्रणालिका मूलदण्डा भवन्ति। चातुर्मास्ये वरुणप्रघासेषु तु स्रुचः शमीमय्यः हिरण्यमय्यो

वा संमार्ष्टव्या। - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः, प्रणेता पण्डित पीताम्बरदत्त शास्त्री(राष्ट्रिय-संस्कृत-संस्थानम्, नई दिल्ली, २००५ई.)

संदर्भ(अपूर्ण)

*अ॒ग्निः स्रुचो॑ अध्व॒रेषु॑ प्र॒यक्षु स य॑क्षदस्य महि॒मान॑म॒ग्नेः। - शौ.अ. ५.२७.५, तु. तै.सं. ४.१.८.१

*मेद॑स्वता॒ यज॑मानाः स्रु॒चाज्या॑नि॒ जुह्व॑तः। अ॒का॒मा वि॑श्वे वो देवाः॒ शिक्ष॑न्तो॒ नोप॑ शेकि॒म॥ - शौ.अ. ६.११४.३

*तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति।स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ शौ.अ. ९.७.५/९.६.२२

*ब्रह्मौदनम् -- अदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन्। सा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु॥ - शौ.अ. ११.१.२४

 

(१८.४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।

(१८.४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥

(१८.४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।

(१८.४.६ ) जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥

 

*तस्यासावेव द्यौर्जुहूः, अथेदमन्तरिक्षमुपभृत्, इयमेव ध्रुवा। - मा.श. १.३.२.४

*स्रुवेण तमाघारयति यं मनस आघारयति। वृषा हि मनः, वृषा हि स्रुवः। स्रुचा तमाघारयति

यं वाच आघारयति। योषा हि वाक्, योषा हि स्रुक्। - मा.श. १.४.४.३

*स्रुवेण तमाघारयति यो मूलं यज्ञस्य। स्रुचा तमाघारयति यः शिरो यज्ञस्य। - मा.श. १.४.४.९

     इस कथन में यज्ञ के मूल से तात्पर्य अंगुष्ठ पुरुष से हो सकता है क्योंकि स्रुवा के मुख की

गहराई को अंगुष्ठपर्वमात्र कहा गया है। यज्ञ का शीर्ष वह हो सकता है

जब यज्ञ का विस्तार व्यावहारिक जीवन में हो जाए।

*पञ्चप्रयाजयागाः। तत्र स्रुगादापननिगदः घृतवतीमध्वर्यो! स्रुचमास्यस्व इति। - मा.श. १.५.२.१

*युजौ ह वाऽएते यज्ञस्य यत्स्रुचौ। - मा.श. १.८.३.२७

*स्रुचो व्युह्य, परिधीन् समज्य परिधिमभिपद्य, आश्राव्याध्वर्युरेवाह –“इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः

सूक्तवाकाय इति। - - - - -त्रीणि समिष्टयजूंषि जुहोति। तूष्णीमेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति। - मा.श. २.५.२.४२,४६

*औद्ग्रभणहोमः। दीक्षाहुतिः। -- ततो यानि त्रीणि स्रुवेण जुहोति तान्याधीतयजूंषीत्याचक्षते। सम्पदऽएव कामाय चतुर्थं हूयते।

अथ यत्पञ्चमं स्रुचा जुहोति तदेव प्रत्यक्षमौद्ग्रभणम्। अनुष्टुभा हि तज्जुहोति। वाग्घ्यनुष्टुप्। - मा.श. ३.१.४.२

*अथ यां पञ्चमीं स्रुचा जुहोति। सा हैव प्रत्यक्षं यज्ञः। अनुष्टुभा हि तां जुहोति। - मा.श. ३.१.४.१६

*स उत्तरमाघारमाघार्यासंस्पर्शयन्त्स्रुचौ पर्य्येत्य जुह्वा पशुं समनक्ति। शिरो वै यज्ञस्योत्तर आघारः। - मा.श. ३.७.४.७

*स यत्र होता प्रातरनुवाकं परिदधातितत्प्रचरणीति स्रुग्भवति; तस्यां चतुर्गृहीतमाज्यं गृहीत्वा जुहोति। - मा.श. ३.९.३.११

परिदधाति परिधानीयाम् अभूदुषा इत्येतां ब्रूयात्। प्रचरणी। प्रचरन्त्यनया जुहूपभृतोर्व्यापारदशायामिति। - सायण भाष्य

*उत्तरवेद्यां अग्निप्रणयनम् अथ मध्यऽआघारयति। - - -अथ स्रुचमुद्यच्छति। भूतेभ्यस्त्वा इति। प्रजा वै भूतानि। - मा.श. ३.५.२.१३

*हविर्धानकर्म देवश्रुतौ देवेष्वाघोषतम् इति प्रयच्छति प्रतिप्रस्थात्रे स्रुचं च आज्यविलापनीं च। - मा.श. ३.५.३.१३

*पात्नीवतग्रहः अथ प्रचरणीति स्रुग्भवति। तस्यां चतुर्गृहीतमाज्यं गृहीत्वाऽध्वर्युः शालाकैर्धिष्ण्यान्व्याघारयति। मा.श. ४.४.२.७

*अनूबन्ध्याप्रायश्चित्तम् अथ प्रचरणीति स्रुग्भवति। तस्यां प्रतिप्रस्थाता मेधायोपस्तृणीते द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने। - मा.श. ४.५.२.९

*सावित्रहोमम् वाग् वै स्रुक्, प्राणः स्रुवः। वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैच्छन्। तस्मात् स्रुवश्च स्रुक् च।

- - - -अथ यास्ता आप आयन् वाचो लोकाद् एतास्ताः यामेतामाहुतिं जुहोति। तां सन्ततां जुहोति। सन्तता हि ता आप आयन्। - - - - ।

स जुहोति युञ्जानः प्रथमं मनः इति। -  मा.श. ६.३.१.८

तुलनीय : मा.श. १.४.४.३ में मन के स्रुवा होने का उल्लेख। संवत्सर का निर्माण वाक्, प्राण और मन द्वारा, या पृथिवी, सूर्य

और चन्द्रमा द्वारा होता है। यही तीनों किसी कार्य के करने में घटक बन सकते हैं। देवों द्वारा केवल वाक् और प्राण द्वारा कार्य

को सम्पन्न करने से क्या तात्पर्य है, यह अन्वेषणीय है। हो सकता है कि यह अग्निहोत्र की स्थिति हो, क्योंकि अग्निहोत्र में

भी मन या चन्द्रमा अनिरुक्त ही रहता है। फिर दर्शपूर्णमास में चन्द्रमा का कार्य प्रत्यक्ष रूप में हो जाता है।

*पञ्चचूडेष्टकाः अथोत्तरतः। अयमुत्तरात्संयद्वसुः। - - - -विश्वाची च घृताची चाप्सरसौ इति। दिक्चोपदिशा चेति ह स्माह माहित्थिः। वेदिश्च तु ते स्रुक्च। वेदिरेव विश्वाची, स्रुग्घृताची। आपो हेतिर्वातः प्रहेतिः इति। - मा.श. ८.६.१.१९

*अथाहुतीर्जुहोति। यथा परिविष्यानुपाययेत् तादृक् तत्। स्रुवेण पूर्वे। स्रुचोत्तराम्। अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम्। ऋध्यामा त ओहैः इति। - - - अथ वैश्वकर्मणीं जुहोति। विश्वकर्माऽयमग्निः। तमेवैतत्प्रीणाति। चित्तिं जुहोमि मनसा घृतेन इति। - - यथा देवा इहागमन् इति। - - - मा.श. ९.२.३.४१

यथा परिविष्य अनुपाययेत् लोके भुञ्जानस्य पुरुषस्य यथा शाकसूपौदनादिकं परिविष्य पश्चात् जलादिकं पेयं पाययेत्तथाऽऽज्याहुतिकरणं भवति। - सायण भाष्य

वैश्वकर्मणी स्थिति को यज्ञ की प्रायणीय और उदयनीय स्थितियों में से उदयनीय स्थिति कहा गया है। यज्ञ का आरम्भ प्रायणीय है, अन्त उदयनीय।

*मारुतहोमः तं(वैश्वानरं) वा एतं पुरोऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति। हस्तेनैवेतरान् आसीनः स्वाहाकारेण। - - -तदाहुः कथमस्यैते पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्तीति। - -- - -मा.श. ९.३.१.१६

*अथैनमेतैः कामैरभिषिञ्चति एतया वसोर्धारया। आज्येन पञ्चगृहीतेन औदुम्बर्या स्रुचा। - मा.श. ९.३.२.२

*वसोर्धारा तस्यै यजमान एवात्मा, बाहुरूधः, स्रुक् स्तनः, धारैव धारा। - मा.श. ९.३.३.१७,

तु. तै.सं. ५.५.१०.७। उपरोक्त कथन में जब स्रुक् वसुधारा रूपी धेनु का स्तन बनता है तो यह कल्पना कर सकते हैं कि जो आज्य की धारा स्रुक् से निकलती है, वह वसुधारा रूपी धेनु से अपने अग्नि रूपी वत्स के प्रति वात्सल्य के कारण स्रवित होती है। यह कथन स्रुक् की वास्तविक निरुक्ति हो सकता है।

*वैश्वकर्मणहोमः प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा। ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तवे इति। - मा.श. ९.५.१.४८

*यो ह वा अग्निहोत्रे षण्मिथुनानि वेद। मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः। - - - स्रुक् च स्रुवश्च तदेकं मिथुनम्। आहवनीयश्च समिच्च तदेकं मिथुनम्। आहुतिश्च स्वाहाकारश्च तदेकं मिथुनम्। - मा.श. ११.३.२.१

     यह अन्वेषणीय है कि अग्निहोत्र में मिथुन को इतना महत्त्व क्यों दिया गया है। हो सकता है कि मिथुन से तात्पर्य कार्य-कारण से हो। जहां कार्य-कारण की भी प्रतीति नहीं होती, सब घटनाएं केवल द्यूत प्रतीत होती हैं, वह स्थिति अग्निहोत्र से भी नीचे है। कार्य-कारण की स्थिति को सत्य स्थिति कहा जा सकता है(कलियुग में धर्मरूप वृषभ का केवल सत्य पाद शेष रह जाता है)।

*एके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ धारयंति। न तथा कुर्यात्। - - -अथ हैष मध्यमः प्राणः, तस्मादु तमुपन्यच्येवैव धारयेत्। - मा.श. ११.४.२.४

उपन्यच्येवैव - नीचैः कृत्वैव तं मध्यमं प्राणं उपनतस्य मध्यमप्राणस्य समीपे धारयेत् सायण भाष्य

*एके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति। न तथा कुर्यात्। यो हैनं तत्र ब्रूयात् अनुयुवन्न्वा अयमध्वर्युर्यजमानमक्रत्। - - -मा.श. ११.४.२.१३

*पार्श्वत उ हैके स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति। न तथा कुर्यात्। यो हैनं तत्र ब्रूयात्। अतीर्थेने न्वा अयमध्वर्युराहुतीः प्रारौत्सीत्। - मा.श. ११.४.२.१४

*इत्थमेव कुर्यात्। प्राचीमेव स्रुचमुपावहृत्य हुत्वा तेनैवाधिहृत्योपभृत्यधिनिदध्यात्। - मा.श. ११.४.२.१५

*अयस्थूणगृहपतीनां ह वै शौल्बायनोऽध्वर्युरास। - - -स होवाच। अध्वर्यो आ वै नोऽक्रुक्षः। एते वै ते स्रुचौ, ये त्वं संवत्सरन्नाशक आदातुम्। - मा.श. ११.४.२.१९

आदातुम् उद्यंतुं। नाशकः शक्तो नाभवः। संवत्सरकालेनापि स्रुगादानं कर्तुमशक्तोऽसि। - सायण भाष्य

*अग्निहोत्रम् किं हुत्वा प्रकंपयसि। किं स्रुचं परिमृज्य कूर्च्चे न्यमार्जीः। किं द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदः।  -- -- - किं स्रुच्यप आनीय निरौक्षीः। किं द्वितीयं किं तृतीयमेतां दिशमुदौक्षीः। - मा.श. ११.५.३.४

निरौक्षीः निष्कृष्य उक्षणं सेचनं कृतवानसि सायण भाष्य

*अथ यद्धुत्वा प्रकंपयामि, वायव्यं तत्। यत्स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्, ओषधिवनस्पतींस्तेनाप्रैषम्। यद्द्वितीयं परिमृज्य दक्षिणतो हस्तमुपासीषदं, पितॄँस्तेनाप्रैषम्। - - -यत्स्रुच्यप आनीय निरौक्षिषं, सर्पदेवजनाँस्तेनाप्रैषम्। यद्द्वितीयं, गन्धर्वाप्सरसस्तेन। - मा.श. ११.५.३.७

*अग्निहोत्रम् अथ य एते सोऽन्तरेण पुरुषः कृष्णः पिंगाक्षो दंडपाणिरस्थात्। क्रोधो वै सोऽभूत्। स यत् स्रुच्यप आनीय यन्निनयति । तेन क्रोधमवरुंधे। - मा.श. ११.६.१.१३

*तदाहुः यस्याग्निहोत्रं स्रुच्युन्नीतं स्कन्देत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्कन्नप्रायश्चित्तेनाभिमृश्य अद्भिरुपनिनीय परिशिष्टेन जुहुयात्। यद्यु नीची स्रुक् स्यात्। यदि वा भिद्येत। स्कन्नप्रायश्चित्तेनैवाभिमृश्य अद्भिरुपनिनीय यत्स्थाल्यां परिशिष्टं स्यात्। तेन जुहुयात्। - मा.श. १२.४.२.६

*तदाहुः यस्याग्निहोत्रं स्रुच्युन्नीतममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्धैके होतव्यं मन्यंते। प्रयतमेतत्। नैतस्या होमोऽवकल्पते। - - - आहवनीये समिधमभ्याधाय आहवनीयादेवोष्णं भस्म निरुह्य तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं निनयेत्। - मा.श. १२.४.२.९

*तदाहुः यस्याग्निहोत्रं स्रुच्युन्नीतमुपरिष्टादववर्षेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्विद्यात्। उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। तेन कामं जुहुयात्। - मा.श. १२.४.२.१०

*घर्मसन्दीपनं ब्राह्मणम् - - -द्वंद्वं पात्राण्युपसादयति। उपयमनीं महावीरं परीशासौ पिन्वने रौहिणकपाले रोहिणहवन्यौ स्रुचौ। यदु चान्यद्भवति। तद्दश। - मा.श. १४.१.३.१

*पुरस्तादुपशयां मृदम्। मांसमेवास्मिन्नेतद्दधाति। तदभितः परीशासौ। बाहू एवास्मिन्नेतद्दधाति। अभितः परे रौहणहवन्यौ स्रुचौ। हस्तावेवास्मिन्नेतद्दधाति। - मा.श. १४.३.१.२०

उपशया प्रयोजनाभावेन उपशेते इत्युपशया(महावीर पात्र के निर्माण से बची मृदा)। - सायण भाष्य

*ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ तै.सं. १.१.११.१

हे दर्भ, वेदेस्त्वं बृंहणम् असि। अतस्त्वयि स्रुचः स्थापयितुं त्वां प्रोक्षामि।- - -प्रजा वै बर्हिः। यजमानः स्रुचः। यजमानमेव प्रजासु प्रतिष्ठापयति(तै.ब्रा. ३.३.६) सायण भाष्य

*यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् - - घृ॒तव॑तीमध्वर्यो॒ स्रुच॒माऽस्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति तै.सं. २.५.९.६

*यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति सौ॒म्या अ॒स्याऽऽहु॑तयो भवन्ति - - - यस्य पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पँँ श्लोकँ॑ँ शृणोति॒ - - -यत् प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो विड॑श्व॒त्थो - - यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाँँ रू॒पं यस्यै॒वँँरू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्ये॒वैनँ॑ँ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते। - तै.सं. ३.५.७.२

तैत्तिरीय संहिता के उपरोक्त कथन में मरुतों को विशः कहा गया है। कर्मकाण्ड में अध्वर्यु ऋत्विज बायें हाथ में उपभृत् धारण करता है और दायें हाथ में जुहू। जो भी आज्य आदि की आहुति अग्नि में देनी होती है, उसके लिए पहले उपभृत् से जुहू में आज्य का ग्रहण किया जाता है और फिर जुहू द्वारा आहुति दी जाती है, उपभृत् से नहीं।

तैत्तिरीय संहिता में उपरोक्त कथन(पर्णमयी जुहूर्भवति) से पूर्व यह बताया गया है कि पर्ण या पलाश की उत्पत्ति किस प्रकार हुई। सोम द्युलोक में था। गायत्री ने जब उसका आहरण कर लिया तो रक्षकों के आक्रमण आदि से उसका पर्ण/पंख कट कर गिर पडा। वह पर्ण वृक्ष बना। यह पर्ण से तात्पर्य पर-न लेना चाहिए। वैदिक कथनों(चित्तिः स्रुक् चित्तमाज्यम्) के सायण भाष्यों में कहीं(तैत्तिरीय ब्राह्मण २.२.४.१, तैत्तिरीय आरण्यक ३.१.१) तो स्रुक्/चित्ति को निर्विकल्प अन्तःकरण वृत्ति कह दिया गया है, कहीं(निर्विकल्पकज्ञानेन प्रतीतं वस्तु चित्तम्, चित्तिः सविकल्पकज्ञानम्--तैत्तिरीय संहिता ३.४.४.१ सायण भाष्य) सविकल्प अन्तःकरण वृत्ति कह दिया गया है। तैत्तिरीय संहिता के उपरोक्त कथन के अनुसार जुहू का निर्माण पर्ण काष्ठ से किया जाना है और यदि पर्ण पर-न है तो यह सविकल्पक अन्तःकरण वृत्ति या समाधि से व्युत्थान की स्थिति ही हो सकती है। भागवत पुराण ४. में चित्ति को अथर्वा-पत्नी(अथर्वा अर्थात् अथ अर्वाक् डा. फतहसिंह) और दधीचि/अश्वशिरा की माता कहा गया है। यह कथन भी उपरोक्त की ही पुष्टि करता है। लेकिन यह ध्यान देने योग्य है कि जब चित्तिः स्रुक् चित्तमाज्यम् कहा जाता है तो उसका अर्थ यह नहीं है कि चित्ति का स्रुक् के साथ और चित्त का आज्य के साथ तादात्म्य स्वाभाविक रूप से है ही। अपितु इसका अर्थ यह है कि साधना द्वारा इस तादात्म्य का निर्माण किया जाना है।    

*अ॒ग्निँँ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑। स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ई॑ म॒न्द्रासु॑ प्र॒यसः॑। - तै.सं. ४.१.८.१, तु. शौ.अ. ५.२७.५

*स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णं का॑र्ष्मर्य॒मयीं॑ द॒ध्नः पू॒र्णामौदु॑म्बरीमि॒यं वै का॑र्ष्मर्य॒मय्य॒सावौदु॑म्बरी॒मे ए॒वोप॑ धत्ते तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाऽऽप्तु॒मर्ह॑ति॒ दक्षि॑णां कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदु॑म्बरीं॒ तस्मा॑द॒स्या अ॒सावुत्त॒राऽऽज्य॑स्य पू॒र्णां का॑र्ष्मर्य॒मयीं॒ वज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒ँस्यप॑ हन्ति द॒ध्नः पू॒र्णामौदु॑म्बरीं प॒शवो॒ वै दध्यूर्गुदु॒म्बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति तै.सं. ५.२.७.३

*स्रुग्वै वि॒राड्यत्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निं चि॑नुते तै.सं. ५.२.७.५

*सर्पाहुत्याभिधानम् इमँँ स्तन॒मूर्ज॑स्वन्तं धया॒पामित्याज्य॑स्य पू॒र्णाँँ स्रुचं॑ जुहोति तै.सं. ५.५.१०.७

हे अग्ने इमं स्रुच्यवस्थितं द्रव्यविशेषं धय पिब। कीदृशमपां मातृस्थानीयानां सायण भाष्य। स्रुक् का यह धेनु या मातृ रूप ध्यान देने योग्य है। तु. : मा.श. ९.३.३.१७

*दीक्षाहुत्याभिधानम् स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीं पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो तै.सं. ६.१.२.१

*व्याघारणविधिः भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषां॒ तद्भा॑ग॒धेयं॒ तै.सं. ६.२.८.३

*दे॒वा वै सँँस्थि॑ते॒ सोमे॒ प्र स्रुचोऽह॑र॒न्प्र यूपं॒ ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रँँ स्रु॒चां नि॒ष्क्रय॑णमपश्य॒न्त्स्वरुं॒ यूप॑स्य॒ सँँस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रँँ हर॑ति तै.सं. ६.३.४.९

*मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति तै.सं. ६.३.११.१

*प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑। स ए॒तं दश॑होतारमश्यत्। तेन॑ दश॒धाऽऽत्मानं॑ वि॒धा॑य। दश॑होत्राऽतप्यत। तस्य॒ चित्तिः॒ स्रुगासी॑त्। चि॒त्तमाज्य॑म्। तस्यै॒ताव॑त्ये॒व वागासी॑त्। ए॒तावा॑न्यज्ञक्र॒तुः। स चतु॑र्होतारमसृजत।-- - - - तै.ब्रा. २.२.४.१

चित्तिर्निर्विकल्पकज्ञानहेतुभूताऽन्तःकरणवृत्तिः। चित्तं सविकल्पकज्ञानसाधनमन्तःकरणं। - सायण भाष्य। चित्ति और चित्त में उदात्त-अनुदात्त भेद द्रष्टव्य हैं।

*इमे वै लोकाः स्रुचः। वृष्टिः संमार्जनानि। - तै.ब्रा. ३.३.१.२

*दर्शपूर्णमास/चतुर्होत्र मन्त्रः ॐ चित्तिः॒ स्रुक्। चि॒त्तमाज्य॑म्। वाग्वेदिः॑। आधी॑तं बर्हिः।  केतो॑ अ॒ग्निः। विज्ञा॑तम॒ग्निः। वाक्प॑ति॒र्होता॑। मन॑ उपव॒क्ता। प्रा॒णो ह॒विः। सामा॑ध्व॒र्युः। - तै.आ. ३.१.१

चित्तिचित्त शब्दाभ्यां निर्विकल्पकसविकल्पकभेदजनकावन्तःकरणवृत्तिभेदौ विवक्षितौ। - सायण भाष्य

*अरत्निमात्री स्रुग् भवति। - काठ.सं. ६.१

*आज्येन वै वज्रेण देवा वृत्रमघ्नन् स्रुग्भ्याम् बाहुभ्याम्। - काठ.सं. २४.९

*घृतं वै देवा वज्रं कृत्वा सोममघ्नन्त्स्रुचौ बाहू मै.सं. ३.८.२

*खादिरः स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा। एतेषां वा वृक्षाणामेकस्य स्रुचः कारयेत्। बाहुमात्र्यो ऽरत्निमात्र्यो वा अग्राग्रास्त्वक्तोबिला हंसमुख्यः। - आप.श्रौ.सू. १.१५.१०

अग्र भागे ऽग्रं मुखं यासां ता अग्राग्राः। त्वग्भागे बिलं यासां तास्त्वक्तोबिलाः। - -वायसपुच्छा हंसमुखप्रसेचना इति भारद्वाजः। तथाङ्गुष्ठपर्वमात्रबिलः स्रुवो भवत्यर्धप्रादेशमात्रबिलाः स्रुच इति च। - रुद्रदत्त भाष्य

     जैसा कि ऊपर चित्र में दिखाया गया है, सभी स्रुक् हंसमुख आकृति की होती हैं। हंस से तात्पर्य है कि जो नीर-क्षीर का विवेक कर सके। वाजसनेयि माध्यन्दिन संहिता १९.७३-७४ का कथन है अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङाङ्गिरसो धिया। - - - सोममद्भ्यो व्यपिबच्छन्दसा हँँसः शुचिषत्। - - - अर्थात् क्रौंच पक्षी जल से क्षीर का पान कर लेता है, हंस जल से सोम का पान कर लेता है। यही विशेषता स्रुक् पात्रों की भी है। जुहू नामक स्रुक् आज्य हेतु होती है, उपभृत् नामक स्रुक् पृषदाज्य(पृषत् अर्थात् चितकबरा, अर्धशुद्ध) हेतु होती है(आपस्तम्ब श्रौत सूत्र ७.८.७, ७.९.५, ७.२६.१२, ८.२.२०)। जब जूहू स्रुक् द्वारा आज्य की आहुति देनी होती है तो उपभृत् स्रुक् से एकाधिक बार जुहू में आज्य का ग्रहण किया जाता है और तब आहुति दी जाती है। स्पष्ट है कि आज्य का ग्रहण हंस बनकर किया जाएगा।

*घृताचीरेताग्निर्वो ह्वयति देवयज्याया इति स्रुच आदाय प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशिता स्थ सपत्नक्षयणीरित्यभिमन्त्र्य वेदाग्राणि प्रतिविभज्याप्रतिविभज्य वा तैः स्रुचः संमार्ष्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः।उपभृतमेवोदीचीमित्येके। गोष्ठं मा निर्मृक्षमिति स्रुवमग्रैरन्तरतो ऽभ्याकारं सर्वतो बिलमभिसमाहारम्। मूलैर्दण्डम्। वाचं प्राणमिति जुहूमग्रैरन्तरतो ऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीम्। मूलैर्दण्डम्। चक्षुः श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतो ऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीम्। मूलैर्दण्डम्। प्रजां योनिमिति यथा स्रुवमेवं ध्रुवाम्। - आप.श्रौ.सू. २.४.२

मूल, मध्य, अग्र वेद/यज्ञ की झाडू के भाग रुद्रदत्त भाष्य

*जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति। - आप.श्रौ.सू. २.९.१५

*अग्निहोत्र इषे त्वेति स्रुङ्मुखादवाचीनं सायं लेपमवमार्ष्ट्यूर्जे त्वेति ऊर्ध्वं प्रातः। - आप.श्रौ.सू. ६.१०.१०

स्रुवा

अरत्निप्रमाणः अङ्गुष्ठपर्वप्रमाणेन वृत्तमुखः खदिरकाष्ठनिर्मितः स्रुवो भवति। स्रवति आज्यादि द्रव्यमस्मादिति व्युत्पत्त्या स्रुवपदवाच्यः। - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः, प्रणेता पण्डित पीताम्बरदत्त शास्त्री(राष्ट्रिय-संस्कृत-संस्थानम्, नई दिल्ली, २००५ई.)

अग्निहोत्रस्य हवनी तथा वैकङ्कतः स्रुवः। एते चान्ये च बहवः स्रुवभेदाः प्रकीर्तिताः। वर्तुलास्याः शङ्कुमुखाः पर्वखाताः समानकाः। - माध्यन्दिन शतपथ ब्राह्मण की भूमिका से साभार

     अग्नि पुराण २४ में स्रुक् के मुख का आकार गोष्पद मात्र कहा गया है। डा. फतहसिंह कहा करते थे कि हमारे सिर में जहां शिखा रखी जाती है, ब्रह्मरन्ध्र, उसका आकार गोष्पदमात्र होता है। सारे शरीर का रस शुद्ध होने के पश्चात् इस स्थान पर आता है और फिर उस रस का पुनर्वितरण होता है। इस स्थान पर जब रस आता है तो आधुनिक विज्ञान के अनुसार उसकी संरचना किस प्रकार की होती है और जब इस स्थान से रस निकलता है तो उसकी संरचना किस प्रकार की होती है, यह अभी अज्ञात ही है। इतना अवश्य है कि इस स्थान पर जब रस का आगमन होता है तो शीतलता उत्पन्न होती है और जब इस स्थान से रस का निर्गमन होता है तो ज्योति उत्पन्न होती है।

     गौ जब अपना पद पंक/कीचड में रखती है तो पंक दो भागों में विभक्त हो जाता है। क्या यह मस्तिष्क के दांये और बांये भागों का प्रतीक है, यह अन्वेषणीय है।

     स्रुवा के मुख को अंगुष्ठपर्वमात्र गहराई वाला कहा गया है। यह संकेत करता है कि स्रुवा अंगुष्ठ पुरुष का प्रतीक है। जब स्रुवा के मुख में आज्य भर लिया जाता है तो यह अंगुष्ठ पुरुष के देह में विस्तार का प्रतीक हो सकता है (चित्तमाज्यं) जिसे महाभारत आश्वमेधिक पर्व २१ में चित्त और वित्त कहा गया है चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्

अग्नि पुराण २४ में स्रुक् का प्रमाण बाहुमात्र तथा स्रुवा का प्रमाण हस्तमात्र कहा गया है। यह कथन संकेत देता है कि स्रुक् और स्रुवा में बाहु और हस्त का सम्बन्ध है। स्रुक् और स्रुवा शब्दों में निहित स्रु धातु स्रवण अर्थों में है। बाहु और हस्त के संदर्भ में तो स्रवण का, प्रेरणा का मूल सविता देव को कहा जाता है(सवितुः प्रसवितृभ्यां अश्विनोर्बाहुभ्यां पूष्णोर्हस्ताभ्यां)। इसके अतिरिक्त, स्रुक् और स्रुवा के आकार का जो वर्णन अग्नि पुराण में उपलब्ध है, उतना विस्तृत वर्णन अन्यत्र उपलब्ध है या नहीं, यह अन्वेषणीय है।

संदर्भ(अपूर्ण)

*स वै स्रुवमेवाग्रे सम्मार्ष्टि, अथेतराः स्रुचः। योषा वै स्रुग्, वृषा स्रुवः तस्मात्। - - -मा.श. १.३.१.९

*प्राण एव स्रुवः सोऽयं प्राणः सर्वाण्यङ्गान्यनुसञ्चरति। तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति। - मा.श. १.३.२.३

*अयमेव स्रुवो यो ऽयं (वायुः) पवते। सोऽयमिमान् सर्वान् लोकाननुपवते। तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति। - मा.श. १.३.२.५

*वृषा हि स्रुवः। - मा.श. १.४.४.३

*स्रुवेण तमाघारयति यं मनस आघारयति। वृषा हि मनः, वृषा हि स्रुवः। स्रुचा तमाघारयति यं वाच आघारयति। योषा हि वाक्, योषा हि स्रुक्। - मा.श. १.४.४.३

*स्रुवेण तमाघारयति यो मूलं यज्ञस्य। स्रुचा तमाघारयति यः शिरो यज्ञस्य। - मा.श. १.४.४.९

*अग्निसंमार्जनम् स स्रुवेण पूर्वमाघारमाघार्याह अग्निमग्नीत्सम्मृड्ढि इति। - मा.श. १.४.४.१३

*पत्नीसंयाजः जुहूं च स्रुवं चाध्वर्युरादत्ते, वेदं होता आज्यविलापनीमग्नीत्। - मा.श. १.९.२.१

*स यदि प्रस्तरस्य रूपं कुर्याद् वेदस्यैकं तृणमाच्छिद्याग्रं जुह्वामनक्ति, मध्यं स्रुवे, बुध्नं स्थाल्याम्। - मा.श. १.९.२.१६

*आहुतिर्भूत्वा देवलोकं गच्छादिति तस्माज्जुहूञ्च स्रुवञ्च सम्प्रगृह्णाति। - मा.श. १.९.२.१९

*स्रुवं च स्रुचं चादायोदैति। - मा.श. २.५.३.६, ११

*अथ यद् ध्रुवायामाज्यं परिशिष्टं भवति तज्जुह्वामानयति। त्रिःस्रुवेणाज्यविलापन्या अधि जुह्वां गृह्णाति। यत्तृतीयं गृह्णाति तत्स्रुवमभिपूरयति। स जुहोति - - -मा.श. ३.१.४.१७

*अथ स्रुवेणोपहत्याज्यम्, अग्निमभिजुहोति अग्नाववग्निश्चरति प्रविष्ट ऋषीणां पुत्रोऽअभिशस्तिपावा। स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन्त्स्वाहा इति। - मा.श. ३.४.१.२५

उपरोक्त कथन में स्रुवेण उपहत्याज्यम् के स्थान पर स्रुवेण उपहृत्याज्यम् होना चाहिए था। लेकिन शतपथ ब्राह्मणकार ने यहां संकेत दिया है कि आज्य का केवल ग्रहण ही नहीं करना है, उसका शोधन भी करना है।

*विष्णवऽएकाकिनेऽन्यतरमेवाघारमाघारयति। यं स्रुवेण। प्रतिक्रामति वाऽउत्तरमाघारमाघार्य। - मा.श. ३.४.४.९

*औदुम्बरी अथ स्रुवेणोपहृत्याज्यं विष्टपमभि जुहोति घृतेन द्यावापृथिवी पूर्येथाम् इति। - मा.श. ३.६.१.२१

*यूपसम्पादनम् स यदि स्रुचा जुहोति चतुर्गृहीतमाज्यं गृहीत्वा जुहोति। यद्यु स्रुवेण स्रुवेणैवोपह(हृ?)त्य जुहोति उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि। घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर स्वाहा इति। - मा.श. ३.६.४.३

*अथ स्रुवेण (वृक्षम्) उपस्पृशति विष्णवे त्वा इति। वैष्णवो हि यूपः। - मा.श. ३.६.४.९

*अथ स्रुवेणोपहत्याज्यम्। अवटमभिजुहोति।  - - -। स आह-यूपायाज्यमानायानुब्रूहि इति। - मा.श. ३.७.१.१०

*अथ स्रुवेणोपहत्याज्यमध्वर्युर्वपामभिजुहोति अग्निराज्यस्य वेतु स्वाहा इति। तथो हास्यैते स्तोकाः शृताः स्वहाकृता आहुतयो भूत्वाग्निं प्राप्नुवन्ति। - मा.श. ३.८.२.२१

*स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि जुहोति। - मा.श. ५.२.२.४

*राजसूययज्ञः -- स ये जघनेन शम्यां पिष्यमाणानामवशीयन्ते पिष्टानि वा तण्डुला वा तान् स्रुवे सार्द्धं संवपति। - मा.श. ५.२.३.२

*अथ शुनासीर्येण यजते। - - -अथ पञ्चवातीयम्। स पञ्चधाऽहवनीयं व्युह्य स्रुवेणोपघातं जुहोति।(पांच दिशाओं में होम) मा.श. ५.२.४.४

*स पालाशे वा स्रुवे, वैकङ्कते वा, अपामार्गतण्डुलानादत्ते।  अन्वाहार्यपचनाद् उल्मुकमाददते। - - -- -। स यदि पालाशः स्रुवो भवति। ब्रह्म वै पलाशः। ब्रह्मणैवैतन्नाष्ट्रा रक्षांसि हन्ति। यद्यु वैकङ्कतः। वज्रो वै विकङ्कतः। वज्रेणैवैतन्नाष्ट्रा रक्षांसि हन्ति। - मा.श. ५.२.४.१८

*सावित्रहोमम् वाग् वै स्रुक्, प्राणः स्रुवः। वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैच्छन्। तस्मात् स्रुवश्च स्रुक् च। - - - -अथ यास्ता आप आयन् वाचो लोकाद् एतास्ताः यामेतामाहुतिं जुहोति। तां सन्ततां जुहोति। सन्तता हि ता आप आयन्। - - - - । स जुहोति युञ्जानः प्रथमं मनः इति। -  मा.श. ६.३.१.८

तुलनीय : मा.श. १.४.४.३ में मन के स्रुवा होने का उल्लेख

*आज्येन जुहोति। वज्रो वाऽआज्यम्। - - -अथो रेतो वाऽआज्यम्। रेत एवैतत् सिञ्चति। स्रुवेण। वृषा वै स्रुवः। वृषा वै रेतः सिञ्चति। स्वाहाकारेण। वृषा वै स्वाहाकारः। - मा.श. ६.३.३.१८

*उखोपरि होमः आज्येन जुहोति स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्याम्। - मा.श. ७.५.१.३२

*वाजप्रसवीयहोमः औदुम्बरेण चमसेन। औदुम्बरेण स्रुवेण। तयोरुक्तो बन्धुः। चतुःस्रक्ती भवतः। चतस्रो वै दिशः। - मा.श. ९.३.४.४

*अग्नौ हुत्वाऽथैनमभिषिञ्चति। दैवो वा अस्यैष आत्मा, मानुषोऽयम्। देवा उ वा अग्रे, अथ मनुष्याः। तस्मादग्नौ हुत्वाऽथैनं तस्यैव परिशिष्टेनाभिषिञ्चति। अत्र तं स्रुवमनुप्रास्यति। - मा.श. ९.३.४.१६

*वैश्वकर्मणहोमः सन्ततां तत्राहुतिं जुहोति। रेतो वै तत्र यज्ञः। रेतसोऽविच्छेदाय। स्रुवेणेह स्वाहाकारम्। निरुक्तं हि रेतो जातं भवति। - मा.श. ९.५.१.४४

*स्वाध्यायो वै ब्रह्मयज्ञः। तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूः। मन उपभृत्। चक्षुर्ध्रुवा। मेधा स्रुवः। सत्यमवभृथः। - मा.श. ११.५.६.३

*अग्निहोत्रिणः अन्त्यकर्म जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति। सव्य उपभृतम्। उरसि ध्रुवाम्। मुखेऽग्निहोत्रहवणीम्। नासिकयोः स्रुवौ। - मा.श. १२.५.२.७

     नासिका आज्य का, आधुनिक विज्ञान की भाषा में स्टेम सेल का स्थान है। हमें अपनी नासिका के बारे में जो ज्ञान आधुनिक विज्ञान के माध्यम से प्राप्त हुआ है, वह यह है कि नासिका में स्टेम कोशिकाओं की संख्या सबसे अधिक होती है। जब जुकाम आदि किसी कारण से श्वेत कोशिकाएं नष्ट होने लगती हैं तो स्टेम कोशिकाएं तुरन्त उनकी पूर्ति कर देती हैं। अब यह विचारणीय है कि क्या आज्य को इन्हीं स्टेम कोशिकाओं का रूप कहा जा सकता है? आज्य के विषय में कहा गया है(शतपथ ब्राह्मण १.३.२.६, १.८.३.२४) कि सोम और पुरोडाश आदिष्ट हैं जबकि आज्य अऩादिष्ट है, अर्थात् आज्य का उल्लेख किसी देवता-विशेष के लिए नहीं किया जा सकता। यह एक समष्टि स्थिति है, व्यष्टि नहीं। हमारे शरीर में स्टेम कोशिकाएं भी अनादिष्ट हैं, प्रायः किसी एक अंग की स्टेम कोशिकाओं को दूसरे अंग में रोपित किया जा सकता है।

*पितृमेधः -- अथ गृहेष्वग्निं समाधाय, वारणान्परिधीन्परिधाय, वारणेन स्रुवेणाग्नय आयुष्मत आहुतिं जुहोति। - मा.श. १३.८.४.८

*चतुरौदुम्बरो भवति। औदुंबरश्चमसः।औदुंबरः स्रुवः। औदुम्बर इध्मः। औदुम्बर्यौ उपमन्थन्यौ। - मा.श. १४.९.३.२१

*- - - -यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याऽऽहु॑तयो भवन्ति तै.सं. ३.५.७.१

*वषट्कारेण स्रुवम्(युनक्ति)। - मै.सं. ४.१.११, काठ.सं. ३१.१३

*पितृमेधः ध्रुव॒ आ रो॑ह पृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुपभृ॒दा क्र॑मस्व। जुहु॒ द्यां ग॑च्छ॒ यज॑मानेन सा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑णीयमानः॥ शौ.अ. १८.४.६

*असा आदित्यः स्रुवः। - मै.सं. ४.१.११, १२, ४.७.३, काठ.सं. ३१.५     

*औदुम्बरेण स्रुवेण जुहोति। - मै.सं. १.११.८

*प्राणः(णो वै[तै.]) स्रुवः। - तै.ब्रा. ३.३.१.५, मा.श. ६.३.१.८

*ऋषभो ऽसि शाक्वरो घृताचीनां सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति दक्षिणेन जुहूं स्रुवं सादयत्युत्तरेणोत्तरेण वा ध्रुवाम्। - आप.श्रौ.सू. २.१०.३

*स्रुवेण पार्वणौ होमौ। ऋषभं वाजिनं वयं पूर्णमासं यजामहे। - - - आप.श्रौ.सू. २.२०.५

*अयं स्रुवो अभिजिहर्ति होमाञ्छताक्षरश्छन्दसानुष्टुभेन। सर्वा यज्ञस्य समनक्ति विष्ठा बार्हपत्येन शर्मणा दैव्येनेति स्रुवम्। - आप.श्रौ.सू. ४.७.२

*उरु विष्णो विक्रमस्वेति स्रुवेणाहवनीये यूपाहुतिं जुहोति। स्रुचा वा चतुर्गृहीतेन।- - - स्रुवमाज्यशेषं चाध्वर्युरादत्ते। तक्षा शस्त्रम्। - आप.श्रौ.सू. ७.१.७

*यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति। स्रुचा पञ्चमीम्। आकूत्यै प्रयुजे ऽग्नये स्वाहेत्येतैः प्रतिमन्त्रम्। द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिं षष्ठीम्। - आप.श्रौ.सू. १०.८.५

*ॐ सौवर्णराजतैस्ताम्रैः कांस्यैर्द्रौमैस्तथायसैः। स्रुवैः सर्वगुणोपेतैः कर्म कुर्याद्यथाक्रमम्॥ सौवर्णै राजतैर्यज्ञे ताम्रैः शान्तिकपौष्टिके। कांस्येन रुधिरं मांसं नान्यज्जुह्वीत किंचन॥ सर्वे यज्ञे प्रयोक्तव्या वर्जयित्वा सस्रुवम्। आयसं खादिरं चैव अभिचारे प्रयोजयेत्॥ अधुन्वंश्चैव जुहुयात्स्रुवेणास्फुटिताहुतिम्। धुन्वन्हि हन्ति पुत्रांस्तु राक्षसा स्फुटिताहुतिः॥ नान्यत्किंचिदभिध्यायेदुध्धृत्यान्यत आहुतिम्। तद्दैवतमभिध्यायेदाहुतिर्यस्य हूयते॥ स्रुवे पूर्णे जपेन्मन्त्रमुत्तानं शान्तिके करम्। शान्तिके पौष्टिके चैव वर्जयेत्तु कनीनिकाम्॥ नातिदीर्घो नातिह्रस्वो नातिस्थूलः कृशस्तथा। अष्टाविंशत्यङ्गुलः स्यात्कनिष्ठाग्रे प्रमाणतः॥ दीर्घो हिनस्ति राजानं ह्रस्व ऋत्विजं विनाशयेत्। स्थूलः सस्योपघाताय कृशः क्षयकरः स्मृतः॥ गोपुच्छाग्राकृतिर्दण्डो मण्डलाग्रं शिरो विदुः। अङ्गुष्ठाग्रप्रमाणेन निम्नं शिरसि खानयेत्॥ एतल्लक्षणमुद्दिष्टं स्रुवस्य फलभेदतः। गोपथेन यथाशास्त्रमुद्धृतं श्रुतिचोदनात्। स्रुवेण कुरुते कर्म हस्तेनापि तथा श्रृणु॥ - अथर्ववेद परिशिष्ट २७

*खादिरः स्रुवः। स्फ्यश्च। पालाशी जुहूः। आश्वत्थ्युपभृत्। - - बाहुमात्र्यः स्रुचः पाणिमात्रपुष्करास्त्वग्बिला। हँँसमुखप्रसेका मूलदण्डा भवन्ति। अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः। - कात्यायन श्रौत सूत्र १.३.३८

प्रथम लेखन : 23-8-2012ई.(अधिक भाद्रपद शुक्ल षष्ठी, विक्रम संवत् 2069)