Make your own free website on Tripod.com

PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

स्वस्तिक/स्वस्ति

अयं प्रतीयते यत् स्वस्तिशब्दस्य प्रत्यक्षरूपं श्वस्ति/श्वस्तनम् अस्ति। यदा जीवः मर्त्यलोके अवतरति, तदैव स्वस्त्यै आवश्यकता भवति। तैब्रा 1.4.10.1 तः संकेतमस्ति यत् चातुर्मासयागे स्वस्त्ययनस्य चत्वारि भागाः सन्ति प्रथमः अग्नेः स्वस्ति, द्वितीयं आदित्यस्य स्वस्ति, तृतीयं सोमस्य एवं चतुर्थं इन्द्रस्य। किमेतानि स्वस्तिकचिह्नस्य चत्वारि पार्श्वाः सन्ति, अयं अन्वेषणीयः।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
१.८९.

हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
१.११६.

अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
१.११७.१५

त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
१.१७४.

सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥
२.९.

स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥
२.१५.

किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥
२.२९.

श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥
२.३३.

न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
२.३८.

मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥
३.३१.२०

अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥
३.५३.२०

आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥४.११.६

यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् ।
अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥
५.४.११

नू न एहि वार्यमग्ने गृणान आ भर ।
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥५.१६.५

समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति ।
सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥
५.४२.

नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।
ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥
६.४.

प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् ।
प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥
६.२०.

उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥
६.४७.

नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
७.१.२०

स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषः ॥
८.१६.११

ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
उरुरध्वा स्वस्तये ॥८.३१.११

सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥
८.४८.

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।

इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥९.९७.३६

स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव ।
सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥
१०.७.

असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥१०.५९.६

स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।

स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥१५॥

स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।

सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥१०.६३.१६

 

,४ १ स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
,४ १ असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
खिल २.४.१

 

गातुं यज्ञाय गातुं यज्ञपतय इति । गातुं ह्येष यज्ञायेच्छति गातुं यज्ञपतये यो यज्ञस्य संस्थां दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्य इति स्वस्ति नो देवत्रास्तु स्वस्ति मनुष्यत्रेत्येवैतदाहोर्ध्वं - १.९.१.[२७]

चित्रावसो स्वस्ति ते पारमशीयेति । त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीयं संगृह्येव चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे - २.३.४.[२२]

 

एतेन ह स्म वा ऋषयः । रात्रेः स्वस्ति पारं समश्नुवत एतेनो ह स्मैनान्रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतेनो एवैष एतद्रात्रेः स्वस्ति पारं समश्नुत एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतावन्नु तिष्ठञ्जपति - २.३.४.[२३]

अथाग्नये परिदाय स्वपिति । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवत्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्परिदाय स्वपित्यग्ने त्वं सु जागृहि वयं सुमन्दिषीमहीत्यग्ने त्वं जागृहि वयं स्वप्स्याम इत्येवैतदाह रक्षा णो अप्रयुच्छन्निति गोपाय नोऽप्रमत्त इत्येवैतदाह प्रबुधे नः पुनस्कृधीति यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहा एवं नः कुर्वित्येवैतदाह ३.२.२.[२२]

अथैभ्यः पथ्या स्वस्तिः प्रारोचत । तामयजन्वाग्वै पथ्यास्वस्तिर्वाग्यज्ञस्तद्यज्ञमपश्यंस्तमतन्वत - ३.२.३.[८]

अथ राजानमादायारोहणमभिप्रैति । प्रति पन्थामपद्महि स्वस्ति गामनेहसम्येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति - ३.३.३.[१५]

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्त एतद्यजुः स्वस्त्ययनं ददृशुस्त एतेन यजुषा नाष्ट्रा रक्षांस्यपहत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समाश्नुवत तथो एवैष एतेन यजुषा नाष्ट्रा रक्षांस्यपहत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समश्नुते तस्मादाह प्रति पन्थामपद्महि स्वस्ति गामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति -३.३.३.[१६]

त आप्याययन्ति । अंशुरंशुष्टे देव सोमाप्यायतामिति तदस्यांशुमंशुमेवाप्याययन्तीन्द्रायैकधनविद इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेत्येकधनविद इति शतंशतं ह स्म वा एष देवान्प्रत्येकैक एवांशुरेकधनानाप्यायते दशदश वा तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रायप्यायस्वेतीन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतदाप्याययत्यात्वमिन्द्राय प्यायस्वेति तदेतस्मिन्नाप्यायनं दधात्याप्याययास्मान्त्सखीन्त्सन्या मेधयेति स यत्सनोति तत्तदाह यत्सन्येत्यथ यदनुब्रूते तदु तदाह यन्मेधयेति स्वस्ति ते देव सोम सत्यामशीयेत्येका वा एतेषामाशीर्भवत्यृत्विजां च यजमानस्य च यज्ञस्योदृचं गच्छेमेति यज्ञस्योदृचं गच्छानीत्येवैतदाह - ३.४.३.[१८]

सोऽग्निमेव प्रथमं यजति । अथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिं वाग्वै पथ्या स्वस्तिरियमदितिरस्यामेव तद्देवा वाचम्प्रत्यष्ठापयन्त्सेयं वागस्यां प्रतिष्ठिता वदति ४.५.१.[४]

अथ रासभम् । उर्वन्तरिक्षं वीहि स्वस्तिगव्यूतिरभयानि कृण्वन्निति यथैव यजुस्तथा बन्धुः पूष्णा सयुजा सहेतीयं वै पूषानया सयुजा सहेत्येतत्तदेनं रासभेनान्विच्छति - ६.३.२.[८]

अथ विष्णुक्रमान्क्रान्त्वा । वात्सप्रेणोपस्थायास्तमित आदित्ये भस्मैव प्रथममुद्वपत्येतद्वा एनमेतेनान्नेन प्रीणात्येताभिः समिद्भिस्तस्यान्नस्य जग्धस्यैष पाप्मा सीदति भस्म तेनैनमेतद्व्यावर्तयति तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं विसृज्य समिधमादधाति रात्र्या एवैनमेतदन्नेन प्रीणाति रात्रीं रात्रीमप्रयावं भरन्त इति तस्योक्तो बन्धू रात्र्या एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किंचाती रात्र्योपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति - ६.६.४.[१]

अथ प्रातरुदित आदित्ये । भस्मैव प्रथममुद्वपत्येतद्वा एनमेतेनान्नेनप्रीणात्येतया समिधा यच्च रात्र्योपसमादधाति तस्यान्नस्य जग्धस्यैष पाप्मा सीदति भस्म तेनैनमेतद्व्यावर्तयति तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं विसृज्य समिधमादधात्यह्न एवैनमेतदन्नेन प्रीणात्यहरहरप्रयावम्भरन्त इति तस्योक्तो बन्धुरह्न एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किं चातोऽह्नोपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति - ६.६.४.[२]

अहोरात्रे वा अभिवर्तमाने संवत्सरमाप्नुतः संवत्सर इदं सर्वमाह्नायैवैतामरिष्टिं स्वस्तिमाशास्ते - ६.६.४.[३]

अथाश्वं शुक्लं पुरस्तान्नयन्ति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्त एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति समाश्नुवत तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति समश्नुत आगच्छन्त्यग्निं दक्षिणतः पुच्छस्य चितिमुपनिदधत्युत्तरतोऽश्वमाक्रमयन्ति - ७.३.२.[१०]

मन एव पुरः  मनो हि प्रथमं प्राणानां चक्षुरेव चरणं चक्षुषा ह्ययमात्मा चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं स यो हैतदेवं यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद अरिष्टो हैवानार्तः  स्वस्ति यज्ञस्योदृचमश्नुते स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद - १०.३.५.[८]

तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि। तानि शतं शतं रथाह्न्यानि। अन्तरेण तानि ये विद्वांस उपयन्ति। यथाऽऽरण्यान्यां मुग्धाँश्चरतोऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन्। एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते। अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम्। एवं हैव ते देवतायै देवतामुपसंयन्ति। ते स्वस्ति स्वर्गं लोकं समश्नुवते॥१२.२.३.१२

तस्मा उ हैतदुवाच। प्रातःसवने बहिष्पवमान उद्गातारमन्वरभासै। श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२..४.

अथ माध्यन्दिने पवमाने उद्गातारमन्वारभासै। सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२..४.

अथ तृतीयसवन आर्भवे पवमान उद्गातारमन्वारभासै। ऋभुरसि जगच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२..४.

सायमाहुत्यां हुतायाम्  जघनेन गार्हपत्यमुदङ्वावातया सह संविशति तदेवापीतराः संविशन्ति सोऽन्तरोरू असंवर्तमानः शेतेऽनेन तपसा स्वस्ति संवत्सरस्योदृचं समश्नवा इति - १३.४.१.[९]

देवविशः कल्पयितव्या इत्याहुस्ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति सर्वा विशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति स्वस्ति नः पथ्यासु धन्वस्वित्यन्वाह स्वस्त्यप्सु वृजने स्वर्वति स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातनेति मरुतो वै देवानां विशस्ता एवैतद्यज्ञमुखेऽचीक्लृपत्सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यायाः स्वस्तेस्त्रि-ष्टुभावग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यग्नेस्त्रिष्टुभौ त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्यामिति सोमस्य त्रिष्ट-?ुभावा विश्वदेवं सत्पतिं य इमा विश्वा जातानीति सवितुर्गाय त्र्?यौ सुत्रामा-णम्पृथिवीं द्यामनेहसम्महीमू षु मातरं सुव्रतानामित्यदितेर्जगत्यावेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद॥ऐब्रा 1.9॥।

ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो या-ज्यानुवाक्या एताभिर्वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमान एता-भिरिष्ट्वा स्वर्गं लोकं जयति। तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह योऽनिवेद्य स्वर्गं लोकमेतीश्वरा हैनं नि व रोद्धोर्वि वा मथितोः स अदाह स्वस्ति राये मरुतो दधातनेति तम्मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति न ह वा एनम्मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते न विमथ्नते स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकमभि य एवं वेद विराजावेतस्य हविषः स्विष्टकृतः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे सेदग्निरग्नीँ रत्यस्त्वन्यान्सेदग्निर्यो वनुष्यतो निपातीत्येते विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानो विराड्भ्यामिष्ट्वा स्वर्गं लोकं जयति ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता अक्षरभाजः करोत्यक्षरेणाक्षरेणैव तद्देवतां प्रीणाति देवपात्रेणैव तदेवतास्तर्पयति॥ऐब्रा 1.10

यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः। पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्तेयेवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति॥ऐब्रा 1.11

वृत्रमहंस्तद्यदंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वा प्याययास्मान्सखीन्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्ति यदेवास्य तत्क्रूरमिवान्ते चरन्ति तदेवास्यैतेनाप्यययन्त्यथो एनं वर्धयन्त्येव द्यावा-पृथिव्योर्वा एष गर्भो यत्सोमो राजा तददेष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नवते द्यावापृथिवीभ्यामेव तं नस्कुर्वन्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव॥ऐब्रा 1.26

 

ते देवा अब्रुन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वासोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥   (13.2)   (97)

यद्वै चतुर्विंशं तन्महाव्रतम्बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानम्बृहद्दिवो निष्केवल्यम्भवत्येष ह वा एनम्परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्स-रस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति सम्वत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14

तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतम्पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्व सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयम्पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँ ल्लोकान्सद्यस्तरत्यरिष्टनेमि-म्पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्र स्येव रातिमाजो-हुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतद-धिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्य-न्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेना शास्त आत्मने च यजमानेभ्यश्च॥4.20

पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29

तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतम्भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्सानमाग्निमारुतं भवति॥4.30

इषोऽन्नाद्यस्यावरुद्ध्या अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसत्यथाह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति वीर्यं वै त्रिष्टुब्वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्तीयमिन्द्रं वरुणमष्ट मे गीरिति मैत्रवरुणस्य बृहस्पतिर्नः परि पातु पश्चादिति ब्राह्मणाच्छांसिन उभा जिग्यथुरित्यछा-वाकस्यो भौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्र श्च ह वै विष्णुश्चासुरैर्युयुधाते तान्ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा उचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माक-मितरदिति स इमाँ ल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्र-मितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथाम्-ऐरयेथामित्यच्छावाक उक्थ्येऽभ्यस्यति स हि तत्रान्त्यो भवत्यग्निष्टोमे होतातिरात्रे च स हि तत्रान्त्यो भवत्यभ्यस्येत्षोळशिनीम् नाभ्यस्येदिति अभ्यस्येदित्याहुः कथमन्येष्वहःस्वभ्यस्यति, कथमत्र नाभ्यस्येदिति, तस्मादभ्यस्येत्॥6.15॥  

यज्ञस्य स्म श्वस्तनम् उपेत। - जैब्रा २.४१९

एतद् ध वै यज्ञस्य श्वस्तनं यद् गौरिवीतं, प्रजा श्वस्तनं, पशव श्वस्तनं, स्वर्गो लोक श्वस्तनम्। जैब्रा २.४२४

यथा ह वा इदम् अवसानदर्शाववसानं विन्दत एवम् एतौ गौरिवीतस्योदासौ देवेभ्य श्वस्तनं विन्दतः। श्वस्तनं नो ऽसद् इति वै सत्रम् आसते। श्वस्तनं हैवैभ्यो भवति। एतद् ध वा अद्यश्वं देवानां यद् गौरिवीतम्। अक्षितम् अस्याद्यश्वं भवति य एवं वेद। - जैब्रा. ३.१७

त्रयस्त्रिँशद्वै देवताः  ।  देवता एवावरुन्धते  ।  ये वा इतः पराञ्चँ  संवत्सरमुपयन्ति  ।  न हैनं ते स्वस्ति समश्नुवते  ।  अथ येऽमुतोऽर्वाञ्चमुप यन्ति  ।  ते हैनँ  स्वस्ति समश्नुवते  ।  एतद्वा अमुतोऽर्वाञ्चमुप यन्ति  ।  यदेवम्  ।  यो ह खलु वाव प्रजापतिः  ।  स उ वेवेन्द्रः  ।  तदु देवेभ्यो नयन्ति  ३२ तैब्रा १.२.२.

अग्निर्वाव संवत्सरः  ।  आदित्यः परिवत्सरः  ।  चन्द्रमा इदावत्सरः  ।  वायु-रनुवत्सरः  ।  यद्वैश्वदेवेन यजते  ।  अग्निमेव तत्संवत्सरमाप्नोति  ।  तस्माद्वैश्वदेवेन यजमानः  ।  संवत्सरीणाँ  स्वस्तिमाशास्त इत्याशासीत  ।  यद्वरुणप्रघासैर्यजते  ।  आदित्यमेव तत्परिवत्सरमाप्नोति  ५७

तस्माद्वरुणप्रघासैर्यजमानः  ।  परिवत्सरीणाँ  स्वस्तिमाशास्त इत्याशासीत  ।  यत्साकमेधैर्यजते  ।  चन्द्रमसमेव तदिदावत्सरमाप्नोति  ।  तस्मात्साकमे-धैर्यजमानः  ।  इदावत्सरीणाँ  सवस्तिमाशास्त इत्याशासीत  ।  यत्पितृयज्ञेन यजते  ।  देवानेव तदन्ववस्यति  ।  अथ वा अस्य वायुश्चानुवत्सरश्चाप्रीतावुच्छिष्येते  ।  यच्छुनासीरीयेण यजते  ५८

वायुमेव तदनुवत्सरमाप्नोति  ।  तस्माच्छुनासीरीयेण यजमानः  ।  अनुवत्सरी-णाँ  स्वस्तिमाशास्त इत्याशासीत  ।  संवत्सरं वा एष ईप्सतीत्याहुः  ।  यश्चा-तुर्मास्यैर्यजत इति  ।  एष ह त्वै संवत्सरमाप्नोति  ।  य एवं विद्वाँ श्चातुर्मास्यैर्यजते  ।  विश्वे देवाः समयजन्त  ।  तेऽग्निमेवायजन्त  ।  त एतं लोकमजयन्  ५९ तैब्रा 1.4.10.1

 

सो अस्माँ  अभयतमेन नेषत्  ।  स्वस्तिदा अघृणिः सर्ववीरः  ।  अप्रयुच्छन्पुर एतु प्रजानन्  ।  त्वमग्ने सप्रथा असि  ।  जुष्टो होता वरेण्यः  ।  त्वया यज्ञं वितन्वते  ।  अग्नी रक्षाँसि सेधति  ।  शुक्रशोचिरमर्त्यः  ।  शुचिः पावक ईड्यः  ।  अग्ने रक्षाणो अँहसः  ६

द्रुहः पाशान्निरृत्यै चोदमोचि  ।  अहा अवर्तिमविदत्स्योनम्  ।  अप्यभूद्भद्रे  सुकृतस्य लोके  ।  सूर्यमृतं तमसो ग्राह्या यत्  ।  देवा अमुञ्चन्नसृजन्व्येनसः  ।  एवमहमिमं क्षेत्रियाज्जामिशँसात्  ।  द्रुहो मुञ्चामि वरुणस्य पाशात्  ।  बृहस्पते युवमिन्द्रश्च वस्वः  ।  दिव्यस्येशाथे उत पार्थिवस्य  ।  धत्तँ  रयिँ  स्तुवते कीरये चित्  २७

 

यूयं पात स्वस्तिभिः सदा नः  ।