PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हंस

लोके सार्वत्रिकशिक्षा अस्ति यत् प्रविश्यमानस्य श्वासस्य उपरि सो अक्षरस्य आरोपणं करणीयमस्ति, बहिर्गच्छन्तं श्वासोपरि हं अक्षरस्य। शिवपुराणे ६.१६.३७ अयमेव कथनं विस्तृतरूपेण निरूपितमस्ति। सोहं शब्दस्य प्रतिलोमं हंसः भवति। ब्रह्मवैवर्तपुराणे १.८.२८ कथनमस्ति यत् ब्रह्मणः वामकुक्षितः हंसस्य आविर्भावमभवत्, दक्षिणकुक्षितः यतेः। अयं प्रतीयते यत् यतिः प्राणस्य याति – आयाति गतिः एवास्ति। शिवपुराणे ३.२८.२८ कथा अस्ति यत्र यतिः, भिल्लः एवं भिल्ली जन्मान्तरे हंस, नल एवं दमयन्ती रूपे आविर्भवन्ति। भागवतपुराणे ६.४.२२ दक्षः हंसगुह्यस्तोत्रेण विष्णोः स्तुतिं करोति। एतानि संकेतानि सन्ति यत् प्राणस्य वामरूपं हंसः अस्ति। वाल्मीकिरामायणे २.४.२० उल्लेखमस्ति यत् वाजपेययागतः येषां छत्राणां उत्पत्तिः भवति, तेषां संज्ञा हंसः अस्ति। ते हंसछत्राः सूर्यस्य आतपतः रक्षां कर्तुं समर्थाः सन्ति। महाभारत उद्योगपर्वे ९८.२३ उल्लेखमस्ति यत् वरुणस्य छत्रात् सोमस्य वर्षणं भवति। ऋग्वेदे ४.४०.५ कथनमस्ति - हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । अस्य व्याख्यायां शतपथब्राह्मणः ६.७.३.[११] कथयति यत् सूर्यः एव हंसः शुचिषदस्ति - असौ वा आदित्यो हंसः शुचिषद् इति। किन्तु अयं ध्यातव्यमस्ति यत् सूर्यतः सोमस्य वर्षणं न भवति, चन्द्रमातः भवति। लक्ष्मीनारायणसंहिता ४.७८.३१ अनुसारेण द्यौः छत्रः अस्ति यस्याः प्रकाशनं नक्षत्रेभिः भवति।

     ऋग्वेदे यासु ऋचासु हंसशब्दः प्रकटयति, तेषु सामान्यतः मधोः अपि उल्लेखमस्ति। मधुविद्यायाः उपदेशः अश्वशिरतः भवति। अतएव, यदा निघण्टुमध्ये हंसशब्दस्य उल्लेखं अश्वनामसु भवति, तत् उचितमेव।
 

संदर्भाः

श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥१.६५.९

इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥२.३४.५

हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥३.८.९

हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥३.५३.१०

हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥४.४०.५

हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥४.४५.४

सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥७.५९.७

आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
अत्यो न गोभिरज्यते ॥९.३२.३

प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥९.९७.८

बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥१०.१२४.९

एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।
यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्।
न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥शौअ ११.६.२१

हंसः शुचिषदिति । असौ वा आदित्यो हंसः शुचिषद्वसुरन्तरिक्षसदिति वायुर्वै वसुरन्तरिक्षसद्धोता वेदिषदित्यग्निर्वै होता वेदिषदतिथिरिति सर्वेषां वा एष भूतानामतिथिर्दुरोणसदिति विषमसदित्येतन्नृषदिति प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतदाह वरसदिति सर्वेषु ह्येष वरेषु सन्न ऋतसदिति सत्यसदित्येतद्व्योमसदिति सर्वेषु ह्येष व्योमसु सन्नोऽब्जा गोजा इत्यब्जाश्च ह्येष गोजाश्चऽर्तजा इति सत्यजा इत्येतदद्रिजा इत्यद्रिजा ह्येष ऋतमितिसत्यमित्येतद्बृहदिति निदधाति बृहद्ध्येष तद्यदेष तदेनमेतत्कृत्वा निदधाति -माश ६.७.३.[११]

मन्त्रे कथनमस्ति - सोममद्भ्यो व्यपिबच्छन्दसा हंसः शुचिषत् इति।

अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङागिरसो धिया इति।

अयं संकेतमस्ति यत् सुरायाः शोधनं द्विस्तरयोपरि संभवमस्ति - हंसस्तरे एवं क्रौञ्चस्तरे।