PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हरिणी

संदर्भाः

रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः।

आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी॥ ९.०७०.०७

यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम्।

शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत॥ १०.०९२.०१

स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः।

प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः॥ १०.०९६.०९

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि माश ३.४.४.३

तिस्र उपसदिष्टयः - अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने हरिशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि साऽऽसीद्धरिणी हि साऽऽसीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया माश ३.४.४.२५

वेदिरेव गायत्री। तस्यै येऽष्टौ पुरस्तादाज्यभागाः स दक्षिणः पक्षो येऽष्टा उपरिष्टादाज्यभागाः स उत्तरः पक्षः सैषा गायत्री हरिणी ज्योतिष्पक्षा यजमानं स्वर्गं लोकमभिवहति य एवमेतद्वेद - ११.४.१.१६

त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिश्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः - १३.२.१०.३

प्रवर्ग्यः -- अथ सुवर्णं हिरण्यमुपरिष्टान्निदधाति दिवः संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो द्यौर्ह वा एतस्माद्बिभयांचकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति हरितम्भवति हरिणीव हि द्यौः - १४.१.३.२९

 राजसूये अभिषेकगतविशेषाभिधानम् - इयं वै रजता । असौ हरिणी ।यद्रुक्मौ भवतः । आभ्यामेवैनमुभयतः परिगृह्णाति । - तैब्रा १.८.९.१

प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स हरितः श्यावोऽभवत् । तस्मार्त्स्त्यन्तर्वत्नी । हरिणी सती श्यावा भवति । स विजायमानो गर्भेणाताम्यत् । स तान्तः कृष्णः श्यावोऽभवत् । तस्मात्तान्तः कृष्णः श्यावो भवति । तस्यासुरेवाजीवत् – तैब्रा २.३.८.१

त्रय्यः सूच्यो भवन्ति    अयस्मय्यो रजता हरिण्यः    अस्य वै लोकस्य रूपमयस्मय्यः    अन्तरिक्षस्य रजताः    दिवो हरिण्यः    दिशो वा अयस्मय्यः   अवान्तरदिशा रजताः    ऊर्ध्वा हरिण्यः    दिश एवास्मै कल्पयति  - तैब्रा. ३.९.६.७

अश्वमेधे द्वितीयमहस्तृतीयं च -- यद्धरिणी यवमत्तीत्याह   विड्वै हरिणी ।राष्ट्रं यवः    विशं चैवास्मै राष्ट्रं च समीची दधाति   - तैब्रा ३.९.७.२

अष्टाचक्रा नवद्वारा ( २) । देवानां पूर-योध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । पुरँ हिरण्मयीं ब्रह्मा ( ३) । विवेशापराजिता, इति । - तैआ १.२७.३

एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः – तैआ ६.७.१

देवासुरा वा एषु लोकेषु समयतन्त ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजीयांसो बलीयांस एवं ते वा अयस्मयीमेवेमामकुर्वत रजतामन्तरिक्षं हरिणीं दिवं ते तथेमाँल्लोकान्पुरोऽकुर्वत ते देवा अब्रुवन्पुरो वा इमेऽसुरा इमाँल्लोकानक्रत पुर इमाँल्लोकान्प्रतिकरवामहा इति तथेति ते सद एवास्याः प्रत्यकुर्वताऽऽग्नीध्रमन्तरिक्षाद्धविर्धाने दिवस्ते तथेमाँल्लोकान्पुरः प्रत्यकुर्वत। ते देवा अब्रुवन्नुपसद उपायामोपसदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथमामुपसदमुपायंस्तयैवैनानस्माँल्लोकादनुदन्त यां द्वितीयां तयाऽन्तरिक्षाद्यां तृतीयां तया दिवस्तांस्तथैभ्यो लोकेभ्योऽनुदन्त। - ऐब्रा १.२३

उपसदः । असुरा एष लोकेषु पुरो अकुर्वत । अयस्मयीम् अस्मिन् । रजताम् अन्तरिक्ष लोके । हरिणीम् हादो दिवि चक्रिरे । ते देवाः परिश्रितेष्व् एषु लोकेष्व् एतम् पञ्चदशम् वज्रम् अपश्यन् । तिस्रः सामिधेन्यः समनूक्ता नव सम्पद्यन्ते । षड् याज्या पुरोनुवाक्याः । ताः पञ्चदश । एतेन वै देवाः पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । - कौ.ब्रा. ८.८

अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः हवींष्य् आत्मा गार्हपत्यो जघनम् आहवनीयः शिरः सौवर्णराजतौ पक्षौ – गो.ब्रा. १.३.१०

तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् ते देवाः संघातंसंघातं पराजयन्त ते ऽविदुर् अनायतना हि वै स्मस्
तस्मात् पराजयामहा इति त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास्
ते देवा अब्रुवन्न् उपसदम् उपायाम उपसदा वै महापुरं जयन्तीति – गोब्रा. २.२.७

एतस्याम् आर्भवः पवमानो ऽया रुचा हरिण्या पुनान इति। - जै.ब्रा. २.१२७

अया रुचा हरिण्या पुनान"इत्यार्भवः पवमानः सर्वेषां वा एषा छन्दसां रूपं सर्वेष्वेव छन्दःस्वार्भवं पवमानं प्रतिष्ठापयति – तांब्रा. १६.१६.८