PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हविः

*अथ हविरावपति । अग्नेस्तनूरसि वाचो विसर्जनमिति यज्ञो हि तेनाग्नेस्तनूर्वाचो विसर्जनमिति यां वा अमूं हविर्ग्रहीष्यन्वाचं यच्छत्यत्र वै तं विसृजते ..... अथ हविष्कृतमुद्वादयति । हविष्कृदेहि हविष्कृदेहीति वाग्वै हविष्कृत् श- १ । १ । ४ । ११ ।।

*अथ हविरधिवपति । धान्यमसि धिनुहि देवानिति धान्यं हि देवान्धिनवदित्यु हि हविर्गृह्यते - १.२.१.[१८]

*तद्यदेवं पिनष्टि । जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति – माश १.२.१.२०

*त उ हाप्त्या ऊचुः । अत्येव वयमिदमस्मत्परो नयामेति कमभीति य एवादक्षिणेन हविषा यजाताऽइति तस्मान्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या उ ह तस्मिन्मृजते योऽदक्षिणेन हविषा यजते माश १.२.३.[४]

*हवींषि ह वा आत्मा यज्ञस्य स यदेव पुरस्ताद्धविषां जुहोति तत्पुरस्ताच्चक्षुषी दधाति – माश १.६.३.३९

*सोमाहुतिरेवान्याज्याहुतिरन्या तत एषा केवली यत्सोमाहुतिरथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुस्तदाज्यमेवैतत्करोति । श. १ । ७ । २ । १० ।।

*त्र्यम्बकहविर्यागः – ते (पुरोडाशाः) वा अक्ताः स्युः । अक्तं हि हविस्त उ वा अनक्ता एव स्युरभिमानुको ह रुद्रः पशून्त्स्याद्यदञ्ज्यात्तस्मादनक्ता एव स्युः - माश ,,,

अक्ताः – आज्येनाभिघारिताः । प्रच्युतं वा एतदस्माल्लोकादगतं देवलोकं यच्छृतं हविरनभिघारितम् – सायणभाष्यम्

*शिर एवास्य (पुरुषस्य) हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम। माश , ५.३,

*स यद्यनु निर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति - माश ११, , , ; (तु काठ ३७,१२)

*तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुः – माश ११.१.४.४

*मासा हवींषि।.......अर्धमासा हविष्पात्राणि। -  माश ११.२.७.४

*चतुर्होतारः -- ..... वाचस्पतिर् होता , मन उपवक्ता , प्राणो हविः..... – मै १.९.१,

*अभिघार्या३ नाभिघार्या३, इति मीमांसन्ते , यदभिघारयेद् रुद्रायास्य पशूनपिदध्यात् , तन् न सूर्क्ष्यं , अभिघार्या एव , न हि हविरनभिघृतमस्ति । मै , १०, २०

*यस्य वै हविरप्रतिष्ठितमप्रतिष्ठितः सो , अप्रतिष्ठिता अस्य त्र्यम्बका मै १.१०.२०

*हविर्वै दीक्षितः, यदा वै हविर्यजुषा प्रोक्षत्यथ हविर्भवति, यद्यजुषा स्नपयति हविरेवैनं अकर्, – मै ३.६.२, ३.६.६, काठ २३.१, क ३५.७, तैआ ५.२.२

*प्राणापानौ वै पृषदाज्यं, आत्मा हवि , र्यत्पृषदाज्यं जुहोति , आत्मन् वा एतत् पशोः प्राणापानौ दधाति – मै  ३.१०.४

*आसाद्य वै हविः सामिधेनीरन्वाहुरेतत् खलु वा एतर्हि हविर्यत् सोमस्तस्मात् सोमं उपावहृत्यान्वाह - मै ४.५.३

*अग्ने महान् असि ब्राह्मण भारत इति अग्निर् वै भरतः स वै देवेभ्यो हव्यम् भरति अथ यद् यजमानस्य आर्षेयम् आह न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति तस्माद् अस्य आर्षेयम् आह - कौब्रा. ३.२ तैआ २.१७.२, ३.१.१

*वाक् च वै मनश्च हविर्धाने । वाचि च वै मनसि च इदम् सर्वम् हितम्
तद् यद्द् हविर्धाने प्रवर्तयन्ति सर्वेषाम् एव कामानाम् आप्त्यै – कौ ९.३

*अयं वै लोको दक्षिणं हविर्धानम्। प्रतिष्ठा वा अयं लोकः  कौ ९.४

*अकृत्स्नैव वा एषा देवयज्या यद्धविर्यज्ञः अथ एषा एव कृत्स्ना देव यज्ञा यत् सौम्यो अध्वरः तस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति हविर् यज्ञ इति कौ० १० ।।
*
पशवो वै हविष् पङ्क्तिः पशूनाम् एव आप्त्यै तानि वै पञ्च हवींषि भवन्ति दधि धानाः सक्तवः पुरोडाशः पयस्य इति ..... अथ वै हविष्पङ्क्तिः प्राण एव   कौ० १३ ।।

*तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्ष हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो तैआ २.१४.१

*वाग्जुहूर्मन उपभृद्धृतिर्ध्रुवा प्राणो हविः सामाध्वर्युः स वा एष यज्ञः प्राणदक्षिणोऽनन्तदक्षिणः समृद्धतरः – तैआ २.१७.२

*वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि, इति - तैआ ३.६.१

*महाहविर्होता । सत्यहविरध्वर्युः, अच्युतपाजा अग्नीत् । - तैआ ३.४.५

*वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः तैआ ३.१२.३

. हविः पर्यग्निकृतः (सोमः) । काठ ३४,१५ ।

६ हविरुपावहृतः (सोमः) । काठ ३४, १५ ।

. हविर्वा एतद्यदग्निहोत्रम् । काठ ६, ४ ।।

तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्याम् (देवतायाम्) अशनापिपासे भवतः। - ऐआ २.४.२, ऐउ १.२.५

शिरो वा आघारः आत्मा हविः – मै ३.१०.४

आत्मा वै हविः काठ ८.५

ऐन्द्रावैष्णवं हविः काठ १२.२

धानाः करंभः परिवापः पुरोडाशः पयस्येत्येष वै यज्ञो हविष्पंक्तिः....... हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्रस्यापूप इति हविष्पंक्त्या यजति । ऐ० २ । २४ ।।

न ह वा अव्रतस्य देवा हविरश्नन्ति तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति।– ऐ ७.११, कौ ३.१

मनो होता तै २.१.५.९

यजमानो हविः काठ ६.४, क ४.३

 

हविर्धान

१. शिर एवास्य (पुरुषस्य) हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम। माश , ५.३,

२. एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । माश ३, , , २३ ।

३. तस्य (पुरुषस्य ) शिर एव हविर्धाने । कौ १७, ७ ।।

४. ( सोमः ) द्यौर हविर्धाने । काठ ३४,१४ ।।

५. शिर एवास्य ( यज्ञस्य ) हविर्धानम् । माश ३, ,,२ ।

६. हविर्वै हविर्धाने । क ४०, १ ॥

इन्द्रो हविर्धाने (सोमः) – तैसं ४.४.९.१

गायत्रं साम हविर्धानम् – मै ३.४.४, काठ २१.१२

घर्म या ते दिवि शुक्। या गायत्रे छन्दसि। या ब्राह्मणे या हविर्धाने तां त एतेनावयजे। - तैआ ४.११.१

दिवं ते धूमो गच्छत्विति हविर्धानात्तेनान्तरिक्षं ज्योतिः – मै ३.९.४

द्यौर्हविर्धानम् – तै २.१.५.१

प्राचीनवंशं हविर्धानं मिनोति, ऊर्ध्वा हि द्यौः – मै ३.८.९

हविर्धानं दिवः (देवाः प्रत्यकुर्वत) – मै ३.८.१, काठ २४.१०, क ३८.३

द्यावापृथिवी वै देवानां हविर्धाने आस्ताम्। ऐ १.२९

यद्धविर्धानयोर् नाराशंसा सीदन्ति तत् पितृषु जुहोति – माश ३.६.२.२५

शिरो वा एतद्यज्ञस्य यद्धविर्धानम् – काठ २५.८

वैष्णवं वै हविर्धानम् – मै ३.८.७, काठ २५.८, क ४०.१, माश ३.५.३.१५

वैष्णव्या हविर्धानम् (उपचरति) – मै ४.६.५

शिरो हविर्धानम् – मै ३.८.८, ४.५.९

अदितिस्सदोहविर्धानाभ्याम् (समागच्छतु) – काठ ९.१०

एष वै हविर्धानी यो दर्शपूर्णमासयाजी .....य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति – तैसं २.५.६.३

अथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम । श० ३ । ५ । ३। २

वैष्णवं हि हविर्धानम् । श० ३। ५ । ३ । १५

एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । श- ...२३ ।।

शिर एवास्य ( यज्ञस्य) हविर्धानम् श ३। ५ ।३ ।२।।
शिरो वा एतद्यज्ञस्य यद्धविर्धाने । कौ ११.

तस्य (पुरुषस्य) शिर एव हविर्धाने । कौ १७.७ ।

द्यौर्हविर्धानम् । तै० २ । १ । ५ । १ ।।

द्यावापृथिवी वै देवानां हविर्धाने आस्ताम् । ऐ० १ । २९ ।।
 

हविर्यज्ञः

अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञ । गो० उ० २ । १७ ।।
अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धो ऽत्र सप्तम इत्येते हविर्यज्ञाः । गो- पू० ५ । २३ ।।

१ चत्वारो ह्येते हविर्यज्ञस्यर्त्विजः । ब्रह्मा होताऽध्वर्युरग्नीत् । तै. ३ । ३ । ८ । ७-८ ।।

हविर्यज्ञैर्वै देवा इमं लोकमभ्यजयन्नन्तरिक्षं पशुमद्भिः सोमैरमुम्। तां १७ ।१३ । १८ ।।

हविष्पात्राणि

अर्धमासा हविष्पात्राणि । श० ११ । २ । ७ । ४ ।।

हविष्मन्तः ऋ २ । २७ । १)

पशवो वै हविष्मन्तः । श १ । ४ ।१ । ९ ।।

अर्द्धमासा हविष्मन्तः । गो.पू. .२३

हविष्यः

यो व ऊर्मिर्हविष्य इति यो ऊर्मिर्यज्ञिय इत्येवैतदाह । श ३ । ९ । ३ । २५ ।।

हव्यदातिः ऋ ६। १६ । १० । यजमानो वै हव्यदातिः । श० १ ।४ । १ । २४ ।।

हव्यवाड्

वायुर्वै तूर्णिर्हव्यवाड्वायुर्देवेभ्यो हव्यं वहति । ऐ० २ । ३४ ।।
,, एष हि हव्यवाड्यदग्निः । श० १ । ४ । १ । ३९ ।।

हव्यवाहनः

एष हि हव्यवाहनो यदग्निः । श० १ । ४ । १ । ३९ ।।