PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हविर्धान

१. शिर एवास्य (यज्ञस्य) हविर्धानम्। - - अथ यदस्मिन्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम । माश , ५.३,

उभयतोद्वारं हविर्धानं भवति । उभयतोद्वारं सदस्तस्मादयं पुरुषऽआन्तं संतृण्णः प्रणिक्ते हविर्धाने उपतिष्ठते – माश ३.५.३.[७]

२. प्राचीनवंशं हविर्धानमेतद्वै देवानां निष्केवल्यं यद्धविर्धानं तस्मात्तत्र नाश्नन्ति न भक्षयन्ति निष्केवल्यं ह्येतद्देवानां। माश , , , २३

३. पुरुषो वै यज्ञः तस्य शिर एव हविर्धाने मुखम् आहवनीय उदरम् सदो अन्नम् उक्थानि बाहू मार्जालीयश् च अग्नीध्रियश् च । कौ १७, ।।

४. ( सोमः ) द्यौर हविर्धाने । काठ ३४,१४ ।।

६. हविर्वै हविर्धाने । क ४०, १ ॥

७. यज्ञतन्वाख्या इष्टकाः -- अग्निर् आग्नीध्रे  बृहस्पतिर् आग्नीध्रात् प्रणीयमानः । इन्द्रो हविर्धाने (सोमः) – तैसं ४.४.९.१

८. प्राणो वै गायत्री, गायत्रं हविर्धानं, अपानो जगती, जागतं सदो , व्यानस्त्रिष्टुप्, त्रैष्टुभमाग्नीध्रं – मै ३.४.४, काठ २१.१२

९. घर्म या ते दिवि शुक्। या गायत्रे छन्दसि। या ब्राह्मणे या हविर्धाने तां त एतेनावयजे।- - -या त्रैष्टुभे छन्दसि या राजन्ये याग्नीध्रे - - - -या जागते छन्दसि या वैश्ये या सदसि - तैआ ४.११.१

१०. दिवं ते धूमो गच्छत्विति हविर्धानात्तेन (अवयजति) अन्तरिक्षं ज्योतिः, आग्नीध्रात् तेन – मै ३.९.४

११. तस्य(अग्निहोत्रस्य) पृथिवी सदः अन्तरिक्षमाग्नीध्रम् द्यौर्हविर्धानम्  – तै २.१.५.१

१२. प्राचीनवंशँ हविर्धानं मिनोति , ऊर्ध्वा हि द्यौः, प्राचीनवंशमाग्नीध्रं, ऊर्ध्वं ह्यन्तरिक्षम् , तिरश्चीनवंशँ सद, स्तिरश्ची हीयम् – मै ३.८.९

१३. त (देवाः) एताः प्रतिपुरोऽमिन्वत, हविर्धानं दिवि , आग्नीध्रं अन्तरिक्षे, सदः पृथिव्याम्– मै ३.८.१, काठ २४.१०, क ३८.३

१४. द्यावापृथिवी वै देवानां हविर्धाने आस्ताम्। ऐ १.२९

१५. अथ यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति - - -यद्धविर्धानयोर् नाराशंसा सीदन्ति तत् पितृषु जुहोति – माश ३.६.२.२५

१६. अयं वै लोको दक्षिणं हविर्धानम् कौ ९.४

१७. वाक् च वै मनश् च हविर्धाने वाचि च वै मनसि च इदम् सर्वम् हितम् – कौ ९.३

१८एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्ष हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो- - -– तैआ २.१४.१

१९. शिरो वा एतद्यज्ञस्य यद्धविर्धानम् – काठ २५.८

२०. तद्यद्वैष्णवीभ्यामृग्भ्यां जुहोति वैष्णवं वै हविर्धानम् – मै ३.८.७, काठ २५.८, क ४०.१, माश ३.५.३.१५

ऐन्द्र्या सदा उपचरति , आग्नेय्याग्नीध्रं , वैष्णव्या हविर्धानं – मै ४.६.५

प्राणा वा उपरवाः, शिरो हविर्धानं , शीर्षन् वा इमे प्राणा, स्तस्माद्धविर्धाने – मै ३.८.८, ४.५.९

एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं - मै ३.८.८

अदितिस्सदोहविर्धानाभ्याम् (समागच्छतु) – काठ ९.१०

यजुषा हविर्धानं मिनोति, निरुक्ता हि द्यौ , र्यजुषा सदो, निरुक्ता हीयम्, अयजुषाग्नीध्रं, अनिरुक्तं इव ह्यन्तरिक्षम्, - मै ३.८.९

अन्तराहवनीयं च हविर्धानं चाध्वर्योर् लोको , अन्तरा हविर्धानं च सदश्च यजमानस्य – मै ४.६.५

एष वै हविर्धानी यो दर्शपूर्णमासयाजी  सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाम्̇ सुतः । – तैसं २.५.६.३