PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

हेति

हेति को समझने के लिए लक्ष्मीनारायण संहिता का यह कथन कुंजी का काम करता है कि एकादशी ने द्वादशी को हेति अस्त्र  बनाकर दुष्टों का नाश कर दिया। दूसरी कुंजी उपनिषदों की है कि हृदय के परितः हिता नामक नाडियां हैं जिनमें रात्रि में प्राण सो जाते हैं। जब हृदय में स्थित प्राण इन नाडियों में विचरण करते हैं, उसी अनुसार स्वप्न आते हैं। कुल मिलाकर, यह निष्कर्ष निकलता है कि हिता नाडियों में प्राण सोए रहते हैं और आवश्यकता अनुसार इनको जगाया जा सकता है। शतपथ ब्राह्मण में हेति को ५ दिशाओं में विभाजित किया गया है।  

संदर्भ

,१०३.०३  स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।

,१०३.०३ विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥

,१२१.१०  पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।

,१२१.१० शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥

,१९०.०४  अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।

,१९०.०४ मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायां अभि द्यून् ॥

,०३३.१४  परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।

,०३३.१४ अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥

,०३०.१७  उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।

,०३०.१७ आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥

 

,०१८.१०  अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा ।

,०१८.१० गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च ॥

,०२८.०७  प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।

,०२८.०७ मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥

,०५२.०३  किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः ।

,०५२.०३ किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥

,०६२.०९  य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् ।

,०६२.०९ गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥

,०७४.०४  तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।

,०७४.०४ प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥

 

,०७५.१४  अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।

,०७५.१४ हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥

 

,०५०.०२  शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।

,०५०.०२ गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥

,०६१.१६  त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।

,०६१.१६ आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥

 

,०६७.२०  मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।

,०६७.२० पुरा नु जरसो वधीत् ॥

,०९९.०७  इत ऊती वो अजरं प्रहेतारमप्रहितम् ।

,०९९.०७ आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥

प्रहेतारं – शत्रूणां प्रेरकम्, अप्रहितम् – केनाप्यप्रेषितम्, हेतारं - गन्तारं - सायण

,०६२.०६  आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।

,०६२.०६ मध्वो रसं सधमादे ॥

हेतारः – प्रेरका ऋत्विजः

१०,०३०.०९  तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति ।

१०,०३०.०९ मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥

प्र हेत – प्रगमयत, अस्मद्यज्ञं प्रति प्रेरयत - सायण

*प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः ।

अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥ - ऋ. 10.89.12

१०,१४२.०३  उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।

१०,१४२.०३ उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥

 

*शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु ।

अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥ - ऋ. 10.165.2

*हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने ।

शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः ॥ - ऋ. 10.165.3

*देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् । - शौ.अ. 8.2.9

*हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा शौ.अ. 12.5.19

६.१.२.[१४]

तमब्रवीत् । कस्मिस्त्वोपधास्यामीति हित एवेत्यब्रवीत्प्राणो वै हितं प्राणो हि सर्वेभ्यो भूतेभ्यो हितस्तद्यदेनं हित उपादधात्तस्मादाहोपधास्याम्युपदधामिति

 

६.१.२.[१५]

तदाहुः । किं हितं किमुपहितमिति प्राण एव हितं वागुपहितं प्राणे हीयं वागुपेव हिता प्राणस्त्वेव हितमङ्गान्युपहितं प्राणे हीमान्यङ्गान्युपेव हितानि

 

८.६.१.[३]

ते चेतयमानाः । एता इष्टका अपश्यन्नाकसदस्ता उपादधत ताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तस्मादेता नाकसदस्तथैवैद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति

 

८.६.१.[४]

दिक्षूपदधाति । दिशो वै स नाकः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यृतव्यानां वेलया संवत्सरो वा ऋतव्याः संवत्सरः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यन्तस्तोमभागमेष वै स नाकः स्वर्गो लोकस्तस्मिन्नेवैना एतत्प्रतिष्ठापयति

 

८.६.१.[५]

स पुरस्तादुपदधाति । राज्ञ्यति प्राची दिगिति राज्ञी ह नामैषा प्राची दिग्वसवस्ते देवा अधिपतय इति वसवो हैतस्य दिशो देवा अधिपतयोऽग्निर्हेतीनाम् प्रतिधर्तेत्यग्निर्हैवात्र हैतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्विति त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिताज्यमुक्थमव्यथायै स्तभ्नात्वित्याज्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष इति रथन्तरेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति प्राणा वा ऋषयः प्रथमजास्तद्धि ब्रह्म प्रथमजं दिवो मात्रया वरिम्णा प्रथन्त्विति यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद्विधर्ता चायमधिपतिश्चेति वाक्च तौ मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः

 

८.६.१.[६]

अथ दक्षिणतः । विराडसि दक्षिणा दिगिति विराड्ढ नामैषा दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इति रुद्रा हैतस्य दिशो देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्तेतीन्द्रो हैवात्र हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता प्रउगमुक्थमव्यथायै स्तभ्नात्विति प्रउगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा बृहत्साम प्रतिष्ठित्या अन्तरिक्ष इति बृहता हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः

 

८.६.१.[७]

अथ पश्चात् । सम्राडसि प्रतीची दिगिति सम्राड्ढ नामैषा प्रतीची दिगादित्यास्ते देवा

अधिपतय इत्यादित्या हैतस्यै दिशो देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तेति वरुणो हैवात्र हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता मरुत्वतीयमुक्थमव्यथायै स्तभ्नात्विति मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैरूपं साम प्रतिष्ठित्या अन्तरिक्ष इति वैरूपेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः

 

८.६.१.[८]

अथोत्तरतः स्वराडस्युदीची दिगिति स्वराड्ढ नामैषोदीची दिङ्मरुतस्ते देवा अधिपतय इति मरुतो हैतस्यै दिशो देवा अधिपतयः सोमो हेतीनां प्रतिधर्तेति सोमो हैवात्र हेतीनां प्रतिधर्तैकविंशस्त्वा स्तोमः पृथिव्यां श्रयत्वित्येकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता निष्केवल्यमुक्थमव्यथायै स्तभ्नात्विति निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैराजं साम प्रतिष्ठित्या अन्तरिक्ष इति वैराजेन हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः

 

८.६.१.[९]

अथ मध्ये । अधिपत्न्यसि बृहती दिगित्यधिपत्नी ह नामैषा बृहती दिग्विश्वे ते देवा अधिपतय इति विश्वे हैतस्यै दिशो देवा अधिपतयो बृहस्पतिर्हेतीना प्रतिधर्तेति बृहस्पतिर्हैवात्र हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतामिति त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्यां पृथिव्यां श्रिता वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतामिति वैश्वदेवाग्निमारुताभ्यां हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्ष इति शाक्वररैवताभ्यां हैषा सामभ्यां प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः

 

८.६.१.[१०]

एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामात्मा यज्ञमेव तद्देवा आत्मानं कृत्वैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानो यज्ञमेवात्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति

 

८.६.१.[११]

अथ पञ्चचूडा उपदधाति । यज्ञो वै नाकसदो यज्ञ उ एव पञ्चचूडास्तद्य इमे चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदो होत्राः पञ्चचूडा अतिरिक्तं वै तद्यद्धोत्रा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्ता तस्मात्पञ्चचूडाः

 

८.६.१.[१२]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदो मिथुनं पञ्चचूडा अर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नतायै

 

८.६.१.[१३]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदः प्रजा पञ्चचूडा अतिरिक्तं

वै तदात्मनो यत्प्रजा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः

 

८.६.१.[१४]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । दिशो वै नाकसदो दिश उ एव पञ्चचूडास्तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा अतिरिक्ता वै ता दिशो या अमुष्मादादित्यात्पराच्यो यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः

 

८.६.१.[१५]

यद्वेव पञ्चचूडा उपदधाति । एतद्वै देवा अबिभयुर्यद्वै न इमाँल्लोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत - य एते हेतयश्च प्रहेतयश्च। तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते य एते हेतयश्च प्रहेतयश्च।

 

८.६.१.[१६]

स पुरस्तादुपदधाति । अयं पुरो हरिकेश इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्धरिकेश इत्याह हरिरिव ह्यग्निः सूर्यरश्मिरिति सूर्यस्येव ह्यग्ने रश्मयस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविति वासन्तिकौ तावृतू पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यद्वै सेनायां च समितौ चऽर्तीयन्ते दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यदन्योऽन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति तेनो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि

 

८.६.१.[१७]

अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम् पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मौ तावृतू मेनका च सहजन्या चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी यातुधाना हेती रक्षांसि प्रहेतिरिति यातुधाना हैवात्र हेती रक्षांसि प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः

 

८.६.१.[१८]

अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष

उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम् प्रत्यञ्चमेव यन्तं पश्यन्ति तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्याविति वार्षिकौ तावृतू प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरहोरात्रे तु ते ते हि प्र च म्लोचतोऽनु च म्लोचतो व्याघ्रा हेतिः सर्पाः प्रहेतिरिति व्याघ्रा हैवात्र हेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः

 

८.६.१.[१९]

अथोत्तरतः । अयमुत्तरात्संयद्वसुरिति यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरतौपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह यज्ञं हि संयन्तीतीदं वस्विति तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्याविति शारदौ तावृतूविश्वाची च घृताची चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिर्वेदिश्च तु ते स्रुक्च वेदिरेव विश्वाची स्रुग्घृताच्यापो हेतिर्वातः प्रहेतिरित्यापो हैवात्र हेतिर्वातः प्रहेतिरतो ह्येवोष्णो वात्यतः शीतस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः

 

८.६.१.[२०]

अथ मध्ये । अयमुपर्यर्वाग्वसुरिति पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू उर्वशी च पूर्वचित्तिश्चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिराहुतिश्च तु ते दक्षिणा चावस्फूर्जन्हेतिर्विद्युत्प्रहेतिरित्यवस्फूर्जन्हैवात्र हेतिर्विद्युत्प्रहेतिस्तेभ्यो

नमो अस्त्विति तस्योक्तो बन्धुः

 

८.६.१.[२१]

एते वै ते हेतयश्च प्रहेतयश्च । यांस्तद्देवा एषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वताथ यास्ताः प्रजा एते ते सेनानीग्रामण्योऽथ यत्तन्मिथुनमेतास्ता अप्सरसः सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानः सर्व एव कृत्स्नो भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति

 

८.६.१.[२२]

ता वा एताः । दशेष्टका उपदधाति दशाक्षरा विराड्विराडेषा चितिस्ता उ वै पञ्चैव

द्वेद्वे ह्युपदधाति ता हैता अग्नेराशिषस्ता उत्तमायां चिता उपदधात्यन्त एषो ऽग्नेर्यदुत्तमा चितिरन्ततस्तदग्नेराशिषो निराह पञ्च भवन्ति पञ्च हि यज्ञ आशिषो ऽथैने अन्तरा पुरीषं निवपत्यग्नी हैतौ यदेते इष्टके नेदिमावग्नी संशोचात इत्यथो अन्नं वै पुरीषमन्नेनैवाभ्यामेतत्संज्ञां करोति

 

*चोडा इष्टकाः -- अयम् पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश्च रथौजाश् च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाम्̇सि प्रहेतिः । अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः । अयम् पश्चाद् विश्वव्यचास् तस्य रथेप्रोतश् चासमरथश् च सेनानिग्रामण्यौ प्रम्लोचन्ती च अनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर् व्याघ्राः प्रहेतिः । अयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिः । अयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानिग्रामण्याव् उर्वशी च पूर्वचित्तिश् चाप्सरसौ विद्युद् धेतिर् अवस्फूर्जन् प्रहेतिस् तेभ्यो नमस् ते नो मृडयन्तु  - तै.सं. 4.4.3.1

*सर्पाहुत्याभिधानम् -- हेतयो नाम स्थ। तेषां वः पुरो गृहाः । अग्निर् व इषवः सलिलः ।  निलिम्पा नाम स्थ  तेषां वो दक्षिणा गृहाः पितरो व इषवः सगरः ।  वज्रिणो नाम स्थ  तेषां वः पश्चाद् गृहाः स्वप्नो व इषवो गह्वरः । अवस्थावानो नाम स्थ  तेषां व उत्तराद् गृहाः । आपो व इषवः समुद्रः । अधिपतयो नाम स्थ    तेषां व उपरि गृहाः । वर्षं व इषवो ऽवस्वान्  क्रव्या नाम स्थ पार्थिवाः तेषां व इह गृहाः ॥ अन्नं व इषवो निमिषो वातनामम् । तेभ्यो वो नमस्  ते नो मृडयत   तै.सं. 5.5.10.3

*यया ते सृष्टस्य_अग्नेः । हेतिम् अशमयत् प्रजापतिः । ताम् इमाम् अप्रदाहाय । शमीम्̐ शान्त्यै हराम्य् अहम् । - तै.ब्रा. 1.2.1.7

*रुद्रस्य हेतिः परि वो वृणक्त्व् इत्य् आह । रुद्राद् एवैनास् त्रायते । - तै.ब्रा. 3.2.1.5

*अवभृथ कर्मणि ऋजीषस्य दध्ना पयसा वा मधुमिश्रेण प्रोक्षणे मन्त्राः --आदित्यानां प्रसितिर् हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु । - तै.ब्रा. 3.7.13.4

अथ यदा सुषुप्तो भवति ।

यदा न कस्य चन वेद ।

हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।

ताभिः प्रत्यवसृप्य पुरीतति शेते ।

स यथा कुमारो अद्द्. वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीत ।

एवमेवैष एतच्छेते ॥बृहदा.उप. २,१.१९ ॥

स यथोर्णनाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।

तस्योपनिषत्सत्यस्य सत्यमिति ।

प्राणा वै सत्यं तेषामेष सत्यम् ॥ २,१.२० ॥

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् ।

तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः ।

अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः ।

अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव ।

अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति ।

यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति ।

एताभिर्वा एतदास्रवदास्रवति ।

तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ ४,२.३ ॥

ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति ।

शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।

अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ।

यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।

अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते ।

सोऽस्य परमो लोकः ॥ ४,३.२० ॥

हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु प्राणाः प्रतिष्ठिताः स यदा प्राणेन सह संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि विविधानि च यदा व्यानेन सह संयुज्यते तदा पश्यति देवांश्च ऋषींश्च यदापानेन सह संयुज्यते तदा पश्यति यक्षराक्षसगन्धर्वान्यदा उदानेन सह संयुज्यते तदा पश्यति देवलोकान्देवान्स्कन्दं जयन्तं चेति यदा समानेन सह संयुज्यते तदा पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह संयुज्यते तदा पश्यति दृष्टं च श्रुतं च भुक्तं चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा दश दश नाड्यो भवन्ति तासामेकैकस्य द्वासप्ततिर्द्वासप्ततिः शाखा नाडीसहस्राणि भवन्ति यस्मिन्नयमात्मा स्वपिति शब्दानां च करोत्यथ यद्द्वितीये सङ्कोशे स्वपिति तदेमं च लोकं परं च लोकं पश्यति सर्वाञ्छब्दान्विजानाति स सम्प्रसाद इत्याचक्षते प्राणः शरीरं परिरक्षति हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा तेजस्कायममृतं सलिल एवेदं सलिलं वनं भूयस्तेनैव मार्गेण जाग्राय धावति सम्राडिति होवाच ॥ सुबालोपनिषद इति चतुर्थः खण्डः ॥ ४॥

 

द्वासप्ततिसहस्राणि हृदयादभिनिसृताः  ।

हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा  ॥ स्कन्द 5.3.१५९.४५ ॥