PURAANIC SUBJECT INDEX पुराण विषय अनुक्रमणिका (Suvaha - Hlaadini) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
हिं-कार सामगानस्य आरंभः अनेन कथनेन भवति - वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु । - तैसं ३.३.२.१ हिंकारः किं भवति, अस्य न कोपि व्याख्या अस्ति। पुराणेषु हिंकारशब्दस्य स्थाने हुंकारः अस्ति, अयं प्रतीयते। अयं प्रतीयते यत् हिंकारः कार्यस्य, यज्ञस्य सम्पादनस्य संकल्पः अस्ति। यदा संकल्पं गृह्यन्ते, तस्य पूर्तिः दैव एवं पुरुषार्थोपरि आधृता भवति। संकल्पस्य पूर्त्यां कानि अवरोधानि सन्ति। यथा रजनीश, अरविन्दादि महोदयेभिः व्याख्यातमस्ति, अस्माकं यः मनः अस्ति, तस्य अधिकांशभागः अचेतनः अस्ति। तस्य स्मृत्याः रचना, प्रोग्रामिंग जन्मजन्मान्तरेषु कृता अस्ति। तस्यां कोपि परिवर्तनं सामान्यरूपेण संभवं नास्ति। वैदिकवाङ्मये अस्य संज्ञा अहिः अस्ति। अ-हिं । अस्माकं यः संकल्पः अस्ति, अहिः चेतनायां तस्यानुसारे कोपि परिवर्तनं न भविष्यति। अहितः अग्रिमा चेतना अहिर्बुध्न्यः अस्ति। बुध्न्यः अर्थात् बोधनीयः। यद्यपि अयमपि सुप्तः अस्ति, किन्तु अस्यां संकल्पानुसारेण परिवर्तनं संभवमस्ति। कर्मकाण्डे मनसः केतिकभागः बोधनीयः अस्ति, अस्य परीक्षणं सभ्य एवं आवसथ्य अथवा अजैकपाद एवं अहिर्बुध्न्यसंज्ञकाभ्यां अग्निभ्यां क्रियमाणः अस्ति। सभ्यः खरः अजैकपादसंज्ञकं अग्निं धारयति। अजैकपादः परोक्षसंज्ञा अस्ति, प्रत्यक्षरूपेण अयं अञ्जि – एकपादः अस्ति, अयं प्रतीयते। अञ्जिः अर्थात् तमसि किंञ्चित् प्रकाशः। यदा अञ्जिषु प्रथनं भविष्यति, तदा अयं मिलित्वा एकः अञ्जिः भविष्यति यस्य संज्ञा अज-एकपाद भविष्यति। अस्यां अग्नेः सन्निधौ संकल्पकर्तृकस्य सहायकाः स्वहस्तेषु अक्षाः धारयन्ति। चत्वारि – चत्वारि अक्षाणां एकः गणः भवति। द्यूतक्रीडायां यदि चत्वारि अक्षाणां समानं चिह्नं अस्ति, तदा अयं कृतयुगस्य लक्षणं अस्ति। यदि त्रयाः अक्षाः समानं चिह्नं धारयन्ति, तदा अयं त्रेतायुगस्य लक्षणं अस्ति। एवं द्वापरः एवं कलियुगस्य अपि। ये अक्षाः कृतयुगस्य लक्षणं धारयन्ति, तेषां संख्यानुसारेण धनं गृहीत्वा आवसथ्य स्थाने तेन धनेन अन्नं क्रीत्वा विप्रेभ्यः अन्नं दीयमानं अस्ति। आवसथ्य खरस्य देवता अहिर्बुध्न्यः अस्ति। अहिर्बुध्न्योपरि संदर्भाः द्रष्टव्याः सन्ति।
संदर्भ अथ हिङ्करोति चन्द्रमा वै हिङ्कारोऽन्नमु वै चन्द्रमाः अन्नेनाशनयां घ्नन्ति ४ तांतामशनयामन्नेन हत्वोमित्येतमेवादित्यं समयातिमुच्यते एतदेव दिवश्छिद्रम् ५ यथा खं वानसस्स्याद्रथस्य वैवमेतद्दिवश्छिद्रं तद्रश्मिभिस्संछन्नं दृश्यते - जैउ १.१.३.४, चन्द्रमा एव हिङ्कारः। जै० उ० १ ॥ ३३ ॥ ५ ॥ ९. श्रीर्वै साम्नो हिङ्कारः । जैउ १, १, ४, ६ ।। ६. तेभ्यः (पशुभ्यः प्रजापतिः ) हिङ्कारम्प्रायच्छत् । जैउ १, ३, १, ५। तेभ्यः ( पशुभ्यः प्रजापतिः) हिङ्कारम्प्रायच्छत् । जै० उ० १।११।५॥ स यदनुदितस्स हिङ्कारोऽर्धोदितः प्रस्ताव आसंगवमादिर्माध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारो यदुपास्तमयं लोहितायति स उपद्रवोऽस्तमित एव निधनम् - जैउब्रा १.३.२.४ स वसन्तमेव हिङ्कारमकरोद्ग्रीष्मम्प्रस्तावं वर्षामुद्गीथं शरदम्प्रतिहारं हेमन्तं निधनम्। जै० उ०ब्रा० १.३.२.७ स पुरोवातमेव हिङ्कारमकरोत् ९ जीमूतान्प्रस्तावं स्तनयित्नुमुद्गीथं विद्युतम्प्रतिहारं वृष्टिं निधनं – जैउब्रा १.३.२.९ स यजूंष्येव हिङ्कारमकरोदृचः प्रस्तावं सामान्युद्गीथं स्तोमम्प्रतिहारं छन्दो निधनं – जैउब्रा १.३.३.३ स मन एव हिङ्कारमकरोद्वाचम्प्रस्तावम्प्राणमुद्गीथं चक्षुः प्रतिहारं श्रोत्रं निधनं – जैउब्रा १.३.३.५ श्रीर्वै साम्नो हिङ्कारः । जै० उ० १।४।६॥ ., तस्य त्रय्येव विद्या हिङ्कारः अग्निर्वायुरसावादित्य एष प्रस्तावः इम एव लोका आदिः तेषु हीदं लोकेषु सर्वमाहितं श्रद्धा यज्ञो दक्षिणा एष उद्गीथः दिशोऽवान्तरदिश आकाश एष प्रतिहारः आपः प्रजा ओषधय एष उपद्रवः चन्द्रमा नक्षत्राणि पितर एतन्निधनम् जैउब्रा १.५.१.२ स प्रजापतिर्हरसा हिङ्कारमुदजयदग्निस्तेजसा प्रस्तावं रूपेण बृहस्पतिरुद्गीथं स्वधया पितरः प्रतिहारं वीर्येणेन्द्रो निधनम् – जैउब्रा. १.६.२.७ स यस्स आकाश इन्द्र एव सः स यस्स इन्द्र स्सामैव तत् १ तस्यैतस्य साम्न इयमेव प्राची दिग्घिङ्कार इयं प्रस्ताव इयमादिरियमुद्गीथोऽसौ प्रतिहारोऽन्तरिक्षमुपद्रव इयमेव निधनम् २...... यत्किं च प्राच्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं हिङ्कारेणाप्नोति ३ – जैउ १.१०.१.२ अथाधिदैवतं चन्द्रमा एव हिङ्कारोऽग्निः प्रस्ताव आदित्य उद्गीथ आप एव चतुर्थः पादः तद्धि प्रत्यक्षमन्नम्। जैउब्रा १.११.१.५ एष एवादित्यस्त्रिवृच्चतुष्पाद्रश्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारः तस्मात्ते प्रथमत एवोद्यतस्तायन्ते मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव चतुर्थः पादः ९ एवमेव चन्द्रमसो रश्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारो मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव चतुर्थः पादः। जै० उ० १.११.१.१० ७. शुक्लमेव हिङ्कारः कृष्णं प्रस्तावः पुरुष उद्गीथो या इमा आपोऽन्तस्स एव चतुर्थः पादः १। जैउ १, ११, २, १। तस्य वायुरेव हिङ्कारोऽग्निः प्रस्ताव आदित्य उद्गीथश्चन्द्रमा प्रतिहारो दिश एव निधनम् – जैउब्रा १.१२.२.९ तस्य लोमैव हिङ्कारस्त्वक्प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनम् ६ - जैउ १.१२.२.६ तेषां वायुरेव हिङ्कार आसाग्निः प्रस्ताव इन्द्र आदिस्सोमबृहस्पती उद्गीथोऽश्विनौ प्रतिहारो विश्वे देवा उपद्रवः प्रजापतिरेव निधनम् - जैउब्रा १.१८.३.९ स प्राणेन देवान्देवलोकेऽदधादपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेण वज्रेणाऽस्माल्लोकादसुराननुदत । जै० उ० २.३.२.३ ८. तं ह स्वर्गे लोके सन्तम्मृत्युरन्वेत्यशनया २ श्रीर्वा एषा प्रजापतिस्साम्नो यद्धिङ्कारः तमिदुद्गाता श्रिया प्रजापतिना हिङ्कारेण मृत्युमपसेधति ३ । जैउ ३,३,२,३।
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति । हिंकारेण वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यम् असृजत। यन् न हिंकुर्याद् अशनायुकाः प्रजास् स्युः। हिंकुर्याद् एव... भूः इति। यन् हिंकारं विसृजति तेन रेतो विच्छिनत्ति न हिंकारम् अन्तरेतीति। - जै १.१०१ १. शाकलम् साम -- अन्नं वै हिंकारः । हुमिति वा अन्नाद्यं प्रदीयते । जै ३, ९३ । २. एष वै साम्नाꣳ रसो यद्धिङ्कारः । तां ६, ८, ७ । ३. एष वै स्तोमस्य योगो यद्धिङ्कारः। तां ६, ८, ६ । ५. अथैषा यज्ञिया विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते॥ जै १, २४६ । १०. हिंकारेण वै ज्योतिषा देवास्त्रिवृते ब्रह्मवर्चसाय ज्योतिरदधुः । जै १, ६६ । ११. हिङ्कारो वै गायत्रस्य प्रतिहारः । तां ७, १, ४ । १२. हिङकृत्य गायति तत्र हि सर्वं कृत्स्नꣳ साम भवति । माश ९, १, २, ३४ ॥ प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत। ता हिंकारेणैवाभ्यजिघ्रत् – गो २.३.९ हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति। तस्माद् उ हिंक्रियते - गो २.३.९
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्।
तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग्
इति।
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्।
ततो वै स देवानां श्रेष्ठो ऽभवत्।
येन वै श्रेष्ठस् तेन वसिष्ठस्
- गो
२.३.९ अमृतत्व- २ शांआ २.१; अहोरात्राणि हिङ्कारः- ष ३.१; हिङ्कारेणाश्विनः सामन्वान् - मै ४.६.१ ऊर्ग्वै रसो हिङ्कारः – शांआ २.१ वैश्वानरः प्रायणीयो ऽतिरात्रः--तस्य गायत्रम् एव हिंकारो, रथन्तरं प्रस्तावो, वामदेव्यम् उद्गीथो, बृहत् प्रतिहारो, यज्ञायज्ञीयं निधनम्। – जै २.४३३ पुनरेम इति देवा एद्गां सम्भूतां सा हैनानुदीक्ष्य हिं चकार ते देवा विदांचक्रुरेष साम्नो हिंकार इत्यपहिंकारं हैव पुरा ततः सामास स एष गवि साम्नो हिंकारस्तस्मादेषोपजीवनीयोपजीवनीयो ह वै भवति य एवमेतं गवि साम्नो हिंकारं वेद - माश. २.२.४.१२; तद् वाचो ऽनुष्टुभो मध्ये निधनं भवति। रेतस्सिक्तिर् एव सा। तत् सहिंकारं भवति। नाभिर् वै हिंकारः। नाभ्यो ह वै धृता गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते। नाभिधृता ह वै गर्भाः॥– जै १.३०६ देवा वै नर्चि न यजुष्य् अश्रयन्त। ते सामन्न् एवाश्रयन्त। हिं करोति सामैवाकर्। हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते। हिं करोति वाच एवैष योगः। हिंकरोति, प्रजा एत तद् यजमानः सृजते - तैसं २.५.७.१ वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु । - तैसं ३.३.२.१ प्रजापतिर्वै हिङ्कारः- तां ६.८.५ प्राणो वै हिंकारः –मै ४.६.४, माश ४.२.२.११, शांआ २.१ सामिधेन्यनुवचनम् -- हिंकृत्यान्वाह । नासामा यज्ञोऽस्तीति वा आहुर्न वा अहिंकृत्य साम गीयते स यद्धिंकरोति तद्धिंकारस्य रूपं क्रियते प्रणवेनैव साम्नो रूपमुपगच्छत्यो३ंओ३ इत्येतेनो हास्यैष सर्व एव ससामा यज्ञो भवति..... यद्वेव हिंकरोति । प्राणो वै हिंकारः प्राणो हि वै हिंकारस्तस्मादपिगृह्य नासिके न हिंकर्तुं शक्नोति..... स वा उपांशु हिंकरोति । अथ यदुच्चैर्हिंकुर्यादन्यतरदेव कुर्याद्वाचमेव-- माश १.४.१.२ वृषा वै हिंकारो योषर्क्तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै – ऐआ १.३.१ यथा वा अभ्रिरेवं ब्रह्मणो हिंकारो यद्वै किंचाभ्रियाऽभितितृत्सत्यभ्येवैनत्तृणत्त्येवम् – ऐआ १.३.१ ब्रह्म वै हिङ्कारः – ऐआ १.३.१ अग्निर् वै विराट्। विराजम् एव तद् अन्नाद्यं प्रजनयन्ति। हिंकृत्या प्रस्तुत्य मन्थन्ति। हिंकृताद् धि रेतो धीयते। अथो साम्न एवैतन् मध्यतो विराजम् अन्नाद्यं प्रजनयन्ति। उद्गातुर् ऊरौ मन्थन्ति, - जै ३.७०, तां ८.७.१ ५; वज्र- जै १.१०० कौ ३.२, ११.१, जै १.३१५ वसन्त- ष ३.१ जैउ १.३.२.१५; वसिष्ठ- गो २.३.९ ; वामदेव्य- जै १.१७३ ६७; तैसं ३.३.२.१ वृषन्- गो १.३.२३ वज्रो वै हिङ्कारः। कौ०३।२। ११॥१॥ , प्राणो वै हिङ्कारः । श०४।२।२। ११ ॥ प्राणो हि वै हिङ्कारस्तस्मादपिगृह्यनासिके न हिङ्कर्त्तुं शक्नोति । श०१।४।१।२॥ प्रजापतिर्वै हिङ्कारः। तां०६।८।५॥ अहोरात्राणि हिङ्कारः । ष० ३।१॥ , वसन्तो हिङ्कारः। ष०३।१॥ ., वृषा हिङ्कारः । गो० पू० ३ । २३ ॥ , एष वै साम्नाᳪ रसो यद्धिङ्कारः । तां० ६ । ८॥ ७ ॥ , हिङ्कृत्य गायति तत्र हि सर्वं कृत्स्नᳪ साम भवति । श० ९।१।२।३४॥ तदेतद्यज्ञस्याग्रे गेयं यद्धिङ्कारः । गो० उ० ३।९॥ , न वाऽ अहिंकृत्य साम गीयते । श०१।४।१।१॥ , हिङ्कारो वै गायत्रस्य प्रतिहारः । तां० ७।१।४॥ , एष वै स्तोमस्य योगो यद्धिङ्कारः। तां० ६।८। ६॥ येन वै श्रेष्ठस्तेन वसिष्ठः ( हिङ्कारः ) । गो० उ० ३।९ ॥ गवां त्वा हिंकारेणेति च त्रिर्दक्षिणेऽस्य कर्णे जपति । - पाराशरगृह्यसूत्रम् १.१८.४
|