PURAANIC SUBJECT INDEX पुराण विषय अनुक्रमणिका (Suvaha - Hlaadini) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
हृदय तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे। शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ १.०२४.१२ अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत्। नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि॥ १.०३२.१४ कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे। वोचेम शंतमं हृदे॥ १.०४३.०१ तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः। यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त॥ १.०६०.०३ अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति। इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त॥ १.०६१.०२ हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥ विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन्॥ १.०६७.०४ एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च। शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः॥ १.०७३.१० को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्। आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात्॥ १.०८४.१६ सोम रारन्धि नो हृदि गावो न यवसेष्वा। मर्य इव स्व ओक्ये॥ १.०९१.१३ ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे। व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी॥ १.१०५.१५ आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती। विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे॥ १.११६.१७ धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम्। सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन्॥ १.१४६.०४ सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते। ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे॥ १.१६८.०३ एष वः स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः। उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः॥ १.१७१.०२ इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे। यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः॥ १.१७९.०५ मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः। आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः॥ २.०२३.१६ अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम्। त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः॥ २.०२९.०६ इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत्। अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान॥ २.०३५.०२ त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन्। वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्॥ ३.०२६.०८ इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति। या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य॥ ३.०३९.०१ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये। एष रारन्तु ते हृदि॥ ३.०४२.०८ ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः। प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः॥ ४.०३७.०२ इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता। यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान्॥ ४.०४१.०१ क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते। कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम्॥ ४.०४३.०१
एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः। एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः॥ ४.०५८.०६ धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि। अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम्॥ ४.०५८.११ यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि। जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम्॥ ५.००४.१० तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे। त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च॥ ५.०११.०५ इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु। निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि॥ ५.०३१.०९ समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता। अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी॥ ५.०४४.०९ यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः। ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः॥ ५.०५६.०२ वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु। हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ॥ ५.०८५.०२ आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि। ते ते भवन्तूक्षण ऋषभासो वशा उत॥ ६.०१६.४७ गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः। इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्॥ ६.०२८.०५ परि तृन्धि पणीनामारया हृदया कवे। अथेमस्मभ्यं रन्धय॥ ६.०५३.०५ वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम्। अथेमस्मभ्यं रन्धय॥ ६.०५३.०६ आ रिख किकिरा कृणु पणीनां हृदया कवे। अथेमस्मभ्यं रन्धय॥ ६.०५३.०७ यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे। तया समस्य हृदयमा रिख किकिरा कृणु॥ ६.०५३.०८ त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति। यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः॥ ७.०३३.०९ अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु। शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.०८६.०८ यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि। उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान्॥ ७.०९८.०२ इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत्। मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः॥ ७.१०१.०५ हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम्। ऊधर्न नग्ना जरन्ते॥ ८.००२.१२ स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव। सोमः शमस्तु ते हृदे॥ ८.०१७.०६ पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम्। उप द्वयुं चाद्वयुं च वसवः॥ ८.०१८.१५ ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये। अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम्॥ ८.०२०.१८ अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम्। हृद्भिर्मन्द्रेभिरीमहे॥ ८.०४३.३१ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः। सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः॥ ८.०४८.०४ यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश। तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम॥ ८.०४८.१२ तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः। हृदा हूयन्त उक्थिनः॥ ८.०७६.०८ एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा। हृदा वीड्वधारयः॥ ८.०७७.०९ सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः। भवा नः सोम शं हृदे॥ ८.०७९.०७ मा नः सोम सं वीविजो मा वि बीभिषथा राजन्। मा नो हार्दि त्विषा वधीः॥ ८.०७९.०८ इषा मन्दस्वादु तेऽरं वराय मन्यवे। भुवत्त इन्द्र शं हृदे॥ ८.०८२.०३ आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे। मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः॥ ८.१००.०५ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय। ऋतस्य योनिमासदम्॥ ९.००८.०३ अया निजघ्निरोजसा रथसंगे धने हिते। स्तवा अबिभ्युषा हृदा॥ ९.०५३.०२ अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति। इन्द्रस्य हार्द्याविशन्॥ ९.०६०.०३ तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव। य इन्द्रस्य हृदंसनिः॥ ९.०६१.१४ पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश। पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते॥ ९.०७०.०९ नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः। इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः॥ ९.०७२.०७ ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे। विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान्॥ ९.०७३.०८ एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम्। इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति॥ ९.०८४.०४ वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः। क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः॥ ९.०८६.१९ अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत्। अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः॥ ९.०८६.२१ इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः। जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः॥ ९.१०८.१६ एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे। सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः॥ १०.००५.०१ बतो बतासि यम नैव ते मनो हृदयं चाविदाम। अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम्॥ १०.०१०.१३ उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति। विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती॥ १०.०११.०६ एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि। दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि॥ १०.०३२.०९ आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत। अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि॥ १०.०४०.१२ क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः। न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत॥ १०.०६४.०२ हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः। अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे॥ १०.०७१.०८ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः। भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्॥ १०.०८४.०७ समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ। सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ॥ १०.०८५.४७ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः॥ १०.०८६.१५ यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः। ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम्॥ १०.०८७.०४ इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः। भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः॥ १०.०९१.१३ यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः। कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये॥ १०.०९१.१४ या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः। तासां त्वमस्युत्तमारं कामाय शं हृदे॥ १०.०९७.१८ पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन्। न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता॥ १०.०९५.१५ अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्॥ १०.१०३.१२ अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम्। कुवित्सोमस्यापामिति॥ १०.११९.०५ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा। हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्॥ १०.१२३.०६ कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत्। सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा॥ १०.१२९.०४ आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि। यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते॥ १०.१६३.०३ पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः। समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः॥ १०.१७७.०१ वात आ वातु भेषजं शम्भु मयोभु नो हृदे। प्र ण आयूंषि तारिषत्॥ १०.१८६.०१ समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति॥ १०.१९१.०४ अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते । गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥शौअ. १.२२.१॥ इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि । वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥२.१२.३॥ शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः । सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥२.२९.६॥ हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥२.३३.३॥ अयमग्निरमूमुहद्यानि चित्तानि वो हृदि । वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥३.२.२॥ व्याकूतय एषामिताथो चित्तानि मुह्यत । अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥३.२.४॥ अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥३.२.५॥ अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥३.७.२॥ अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥३.८.६॥ इदं व आपो हृदयमयं वत्स ऋतावरीः । इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥३.१३.७॥ दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् । प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥३.२०.९॥ उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे । इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥३.२५.१॥ आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् । तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥३.२५.२॥ या प्लीहानं शोषयति कामस्येषुः सुसंनता । प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३.२५.३॥ व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् । अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥३.२५.६॥ गावो भगो गाव इन्द्रो म इच्छाद्गाव सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥४.२१.५॥ संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः । भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥४.३१.७॥ हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् । सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥शौअ ४.३९.१०॥ वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्। शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥५.२०.३॥ अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥५.२०.१२॥ अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ॥५.२९.४॥ अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः । यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥५.३०.९॥ मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । यथा मम क्रतावसो मम चित्तमुपायसि ॥६.९.२॥ यासां नाभिरारेहणं हृदि संवननं कृतं। गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥६.९.३॥ मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु । मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥६.१२.३॥ अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् । बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥६.१४.१॥ ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥६.१८.१॥ अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् । ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥६.१८.३॥ हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः । आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥६.२४.१॥
अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः । यथा संमनसौ भूत्वा सखायाविव सचावहै ॥६.४२.१॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनः यथा वः सुसहासति ॥६.६४.३॥ यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा । तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥६.७३.२॥ संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः । अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥६.७४.२॥ य एनं परिषीदन्ति समादधति चक्षसे । संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥६.७६.१॥ इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् । ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥६.८९.१॥ शोचयामसि ते हार्दिं शोचयामसि ते मनः । वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥६.८९.२॥ यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च । इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥६.९०.१॥
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६.९४.२॥ वि वृहामो विसल्पकं विद्रधं हृदयामयम् । परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥६.१२७.३॥ न्यस्तिका रुरोहिथ सुभगंकरणी मम । शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥ तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥६.१३९.१॥ शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् । अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥६.१३९.२॥ संवननी समुष्पला बभ्रु कल्याणि सं नुद । अमूं च मां च सं नुद समानं हृदयं कृधि ॥६.१३९.३॥ अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् । अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥७.३७.१॥ उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः । उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥७.१००.१॥ आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे । आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥७.११९.१॥ शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥८.२.१४॥ यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः । ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥८.३.६॥ यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥८.३.१२॥ यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते । पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥८.६.१८॥ ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि । बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥८.६.२४॥ या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च । ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥८.७.१७॥ पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् । धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥८.८.२॥ दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे । तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥९.१.१॥ कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥९.१.६॥ सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥९.६.२॥ चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥९.१२.११॥ यदि कामादपकामाद्धृदयाज्जायते परि । हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥९.१३.८॥ उदरात्ते क्लोम्नो नाभ्या हृदयादधि । यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥९.१३.१२॥ या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥९.१३.१४॥ सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः । उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥९.१३.२२॥ मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥१०.२.२६॥ अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय । अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥१०.४.२५॥ यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०.५.४८॥ यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१०.९.१५॥ ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः । प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥११.७.२४॥ ये बाहवो या इषवो धन्वनां वीर्याणि च । असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।११.११.१ मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि । मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥११.११.१३॥ उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु । शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥११.११.२१॥ यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः । यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥१२.१.८॥ यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु । मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥१२.१.३५॥ यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु । मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥१२.२.३३॥ नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥१२.३.३२॥ आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥१४.२.५॥ असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥१६.३.६॥ न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्। असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१८.१.१४॥ बतो बतासि यम नैव ते मनो हृदयं चाविदामा । अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१८.१.१५॥ नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥१८.३.६६॥ इमानि यानि पञ्चेन्द्रियाणि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥१९.९.५॥ इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१९.२८.१॥ द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः । दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥१९.२८.२॥ घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥१९.२८.३॥ भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥१९.२८.४॥ सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥१९.३०.४॥ कामेन मा काम आगन् हृदयाद्धृदयं परि । यदमीषामदो मनस्तदैतूप मामिह ॥१९.५२.४॥ स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । सोमः शमस्तु ते हृदे ॥२०.४.३॥ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । एष रारन्तु ते हृदि ॥२०.२४.८॥ अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति । इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२०.३५.२॥ ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः । जातं जनिर्यथा हृदा ॥२०.४८.२॥ यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२०.८७.२॥ हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥२०.९६.१९॥ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥२०.१२६.१५॥ स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् - माश ३, ८, ३, ८ ।
स हृदयस्यैवाग्रेऽवद्यति । तद्यन्मध्यतः सतो हृदयस्याग्रेऽवद्यति प्राणो वै हृदयमतो
ह्ययमूर्ध्वः प्राणः संचरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ
यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते -
३.८.३.१५ इयं वा अषाढा हृदयं स्तोमभागा अस्यां तद्धृदयं मनो दधाति तस्मादस्यां हृदयेन मनसा चेतयते सर्वत उपदधाति सर्वतस्तद्धृदयं मनो दधाति तस्मादस्यां सर्वतो हृदयेन मनसा चेतयते; माश ८.५.४.३, प्राच उदरं प्राची योनिर्बहिस्तोमभागं हृदयं वै स्तोमभागा हृदयमु वा उत्तममथोदरमथ योनिः - माश ८.६.२.१५
५. निकक्षे निकक्षे हि हृदयं, दक्षिणे निकक्षेऽतो हि हृदयं नेदीयः । माश ९, १, २, ४० । ६. परिमण्डलꣳ हृदयम् । माश ९, १, २, ४० । १०. श्लक्ष्णꣳ हृदयम् । माश ९, १, २, ४० । अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं हृदयं परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षेऽतो हि हृदयं नेदीय आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति- माश ९.१.२.४० आदित्य- ७७; माश ९.१.२.४० ४. अथ य आग्नेयः पुरोडाशः। अयमेवास्य स दक्षिणोऽर्द्धो हृदयमेवास्योपांशुयाजः स यत्तेनोपांशु चरन्ति तस्मादिदं गुहेव हृदयम् - माश ११, २, ६, ५ । ११. अथ यदा सुषुप्तो भवति। यदा न कस्य चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते - माश १४, ५, १, २१ । मनस्- १२; माश १४.६.२.२५ हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदयेन हि सर्वाणि भूतानि प्रतितिष्ठन्ति हृदयं वै सम्राट्परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनम्भूतान्यभिक्षरन्ति - माश १४.६.१०.१८ ३. एष प्रजापतिर्यद्धृदयम्। एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद - माश १४, ८, ४, १। प्रजापति- ३२, माश १४.८.४.१ १२. हृदयमेव मेथ्युपदोहनी (+ प्राणो रज्जुः । प्राणेनैव वाक् च मनश्चाभिहिते । रज्ज्वा वै वत्सं च मातरं चाभिदधाति [जै.])। काश ३, १, ४, २; जै १, १९ । १३. अग्निहोत्रम् - प्राणाय त्वा इति समिधम् अभ्यादधाति। अपाने ऽमृतम् अधां स्वाहा इति जुहोति। अथ स्रुचम् अभिमृशति हृदयं प्रेतिर् मनस् संततिश् चक्षुर् आनतिश् श्रोत्रम् उपनतिर् वाग् आगतिः॥ । जै १, १४ ॥ हृदयम् एव मेथ्य् उपदोहनी प्राणो रज्जुः। प्राणेनैव वाक् च मनश्च चाभिहिते। रज्ज्वा वै वत्सं च मातरं चाभिददाति॥ जै १.१९ ८. ताम् अन्वारभते आयोष् ट्वा सदने सादयाम्य् अवतश् छायायां समुद्रस्य हृदये॥ ....समुद्रस्य हृदये इति। मध्यतो वा आत्मनो हृदयम्। तस्मान् मध्यतस् सदस औदुम्बरीम् ईयते। जै १, ७० । स वशम् एव दिव आदत्त, .... अर्चिषम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य,...जै २.२६ मन्योर् इयाय हर्म्येषु तस्थौ यः प्रजज्ञ इन्द्रो अस्य वेद॥ मन्योर् इयायेति यद् अस्य मन्यौ योनाव् असिञ्चन्। हर्म्येषु तस्थाव् इति हृदयान्य् उ वै हर्म्याणि। हृदयो ह वै क्रुध्यति। - जै ३.३६४ ७. प्रजानां रेतो हृदयं, हृदयस्य रेतो मनः मनसो रेतो वाग्वाचो रेतः कर्म । ऐआ २, १, ३ १. अपिकक्षे हृदयम् । तस्मादपिकक्षे हृदयमनृचं भवति, तस्मादनस्थकꣳ हृदयम् । काठ २१,५ ; क ३१, २० प्रजापतेर् हृदयमपिपक्षे गायते, तस्मादिदमपिपक्ष आत्मनो हृदयमनृचं गायते, तस्मादनस्थकं हृदयम् ॥मै ३, ३, ५। ९. यदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मूतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति । ऐआ २. ६.१
[य-- अग्नि-५५; तैसं १.४.३६.१, तैआ ३.२१.१ अग्निषोमीय-- १२; काश ३.२.१०.५ अन्तरिक्ष-- १३१; ऐआ ३.१.२, शांआ ७.४ अपानो हृदये (प्रतिष्ठितः) २३; शांआ ११.६ आत्मन्-- ४४;मै ३.१०.२, तै ३.१०.८.९, शांआ ११.६ ९३;हृदयमात्मनि (प्रतिष्ठितम्) शांआ ११.६ उदान- ८; उदानो हृदये (प्रतिष्ठितः) शांआ ११.६ चक्षुस्- २७; तै ३.१०.८.५, शांआ ११.६ पुत्र-- ७: तै २.२.७.४ २२८; तै ३.१०.८.५, शांआ ११.६ १६५; ऐआ २.१.४ ६४; तै ३.१०.८.६, शांआ ११.६ ९० मै ३.१०.३ ९१; ऐआ २.४.१, ऐउ १.१.४ मूर्धन्- ४; तै ३.१०.८.९ यूप - २२: तैआ १०.६४.१ रेतस्- ३९; तै ३.१०.८.७, शांआ ११.६ वाच- १०५; तै ३.१०.८.४, शांआ ११.६ विष्णु- ४२; तैआ २.१९.२ शरीर-- ८; तै ३.१०.८.७ श्रोत्र-- ७; तै ३.१०.८.६ हृद्- क्रतु- १०, ११; देव- २१० द्र. ।
हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् । साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् मैत्रे. १।१३ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् कैव. ६ हृत्स्थं ज्ञानासिनाऽऽत्मनः भ. गी. ४।४२ हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ते. बिं.६।१०१ हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोजमध्यगः मैत्रे. ३।१७ हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यत् छांदो. ७।२।१ हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति छांदो. ७।७।१ हृदयमेव सम्राडिति होवाच बृह. ४।१।७ हृदयमेवान्ववक्रामति बृह. ४।४।१ हृदयमेवायतनमाकाशः प्रतिष्ठा बृह. ४|१।७ हृदयंस्त्वं भूतभव्यः पुराणो ह्येको वीरो वेदगुणैकवेद्यः २ रुद्रो. ६० हृदयस्य दश च्छिद्राणि भवन्ति येषु प्राणाः प्रतिष्ठिताः सुबालो. ४।१ हृदयस्य मध्ये लोहितं मांसपिण्डं, यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं सुबालो. ४।१ हृदयस्य रेतो मनः १ ऐत. १।३।१ हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् मुक्तिको. १।३७ हृदयं न हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवति बृह. ३।९।२३ हृदयं निरभिद्यत २ ऐत. १।४ हृदयं निर्मलं कृत्वा चिन्तयित्वाऽप्यनामयम् । अहमेव परं सर्वमिति पश्येत्परं सुखम् पैङ्गलो. ४।९ हृदयं यूपः ( यज्ञस्य) महाना. १८।१ हृदयं वै ब्रह्मेति बृह. ४।१।७ हृदयं ब्रह्मेत्यारुणेयः १ऐत. १।४।१ हृदयं विश्वमस्य मुण्ड २।१।४ हृदयं वै सम्राट् परमं ब्रह्म नैन99 हृदयं जहाति बृ. उ. ४।१।७ हृदयं वै सम्राट् सर्वेषां भूतानामायतनम् बृह. ४।१।७ हृदयं वै सम्राट सर्वेषां भूतानां प्रतिष्ठा बृह. ४।१।७ हृदयं ह्यष्टकपालानि निरुक्तो. २।१ हृदयाकाशे महोज्ज्वलाज्ञानरूपाभवति शांडि. १।४।५ हृदयात्सम्परित्यज्य सर्ववासनपङ्क्तयः । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः महो. ६।८ हृदयात्सर्वमिदं जायते सुबालो. १।५ हृदयादायता तावच्चक्षुष्यस्मिन् प्रतिष्ठिता । सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती मैत्रा. ७।११ हृदयादिकण्ठपर्यन्तं सस्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्तिः कुम्भयित्वा इडया विरेच्य गच्छंस्तिष्ठन्कुर्यात् । तेन श्लेष्महरं जठराग्निवर्धनं भवति शांडि. १।७।१४ हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये त्वेव रेतः प्रतिष्ठितं भवति बृह. ३।९।२२ हृदयाद्धृदयं मृत्योः चित्त्यु. १५।२ हृदयानि व्यदारयत् भ.गी. १।१९ हदयान्मनः (निरभिद्यत) २ ऐत. १।४ हृदयाम्बुरुहासीनं ध्यायेद्वः विष्णुरूपिणम् त्रि. ब्रा. १५३ हृदयेन हि रूपाणि जानाति बृह. ३।९।२० हृदयेन हि श्रद्धां जानाति हृदये होव श्रद्धा प्रतिष्ठिता भवति बृह. ३।९।२१ हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः मुक्तिको. २।१९ हृदये व्यज्यते घोषो गर्जत्पर्जन्यसन्निभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते यो. शि. ३।४ हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्ति बृह. ३।९।२० हृदये ह्येव रेतः प्रतिष्ठितम् बृह. ३।९।२२
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवति बृह. ३।९।२१ हदये ह्येव सत्यं प्रतिष्ठितं भवति बृह. ३।९।२३ हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति बृह. ४।१।७ हृदयोर्ध्वभागे चित्तसंयमात् महर्लोकज्ञानम् - शांडि, १।७।५२ हृदाकाशे चिदादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे मैत्रे २।१४ हृदा पश्यन्ति मनसा मनीषिणः चित्त्यु. ११।११ हृदा मनीषा मनसाऽभिक्लृप्ता ये तां विदुरमृतास्ते भवन्ति गुह्यका. ६० हृदा मनीषा मनसाऽभिक्लृप्तां य एनां विदुरमृतास्ते भवन्ति गुह्यका. ६३ हृदा मनीषी मनसाऽभिक्लृप्तो य ( एवं एनं-विदुः ) एतद्विदुरमृतास्ते भवन्ति [कठो.६।९+ श्वेताश्व. ३।१३ +४।१७+ म. ना. १।११+ त्रि, म.ना. ६।४ हृदासन-नाभि-कण्ठ-सर्वाङ्गानि स्थानानि पैङ्गलो. २।३ हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति श्वेताश्व. ४।२० हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् शांडि. १।७।५२ हृदि दक्षिणाग्निः ( शारीरयज्ञस्य) गर्भो. ११ हृदि प्रतीष्या कवयो मनीषेति उपैनं... [बृ.जा. १।२+ नृ. पू. १।१ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले यो. चू. २३ हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः । हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्च सः २ रुद्रो. ५४ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणाश्च ज्योतिश्च त्रिवृत्सूत्रं च तद्विदुरिति ब्रह्मो ४ हृदि सर्वस्य धिष्ठितम् भ. गी. ३।१८ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः [अ. शिरः. ३।४+ बटुको. १८ हृदिस्थाने अष्टदलपद्मं वर्तते हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् १ यो. त. १३७ हृदिस्थाने स्थितं पद्मं तच्च पद्ममधोमुखम् । ऊर्ध्वनालमधो बिन्दुस्तस्य मध्ये स्थितं मनः २ योगत. ९ हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां प्रश्नो. ३।६ हृदीन्द्रियाणि मनसा सन्निरुध्य ब्रह्मोडुपेन प्रतरेत विद्वान् श्वेताश्व. २।८ हृदेशेऽर्जुन तिष्ठति भ.गी. १८।६१ हृद्द्वारं वायुद्वारं च मूर्ध्नि द्वारमथापरम् । मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः अ. ना. २७ हृद्यन्तःकरणं ज्ञेयं शिवस्यायनं परम् । हृत्पद्मं वेदिका तत्र लिङ्गमोङ्कारमिष्यते शिवो. १।२४ हृद्याकाशमयं कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः . मैत्रा. ६।२७ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव सः योऽयमात्मेदममृतमिदं ब्रह्मेद99 सर्वम् बृह. २।५।१० हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति सुबालो. ४।४ हृद्यादित्यमरीचीनां पदं षण्णवतिः पा. ब्र. ४ हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्री: अ. पू. ४।९१ हृद्रोगं मम सूर्य हरिमाणं च नाशय [ सूर्यता. २।१+ ऋ.मं. १।५०।११ हृश्चेत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद बृह. ५।३।१
|