PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

स्फ्य

यथा सोमयागस्य कृत्ये सार्वत्रिकरूपेण प्रचलितमस्ति, प्रयाजकृत्ये आश्रावण – प्रत्याश्रावणं भवति। अध्वर्युः आश्रावय शब्दं उच्चारयति(ओं श्रावय)। प्रतिध्वनिरूपेण हस्ते स्फ्यसंज्ञकेन वज्रेण युक्तः आग्नीध्रः अस्तु श्रौषट् उच्चारयति। तदनन्तरं अन्ये ऋत्विजाः ये यजामहे, यज उच्चारयन्ति। अन्ततः उच्चस्वरेण वौषट् उच्चारणं सर्वे मिलित्वा कुर्वन्ति। एते प्रजापतेः सप्तदशाक्षराः सन्ति। कामनानुसारेण एतेषां अर्थाः सन्ति। यदि वृष्टेः कामना अस्ति, तर्हि आश्रावय शब्देन पुरोवातस्य सृष्टिः भवति, अस्तुश्रौषटतः अभ्राणि प्लवन्ते, ये यजामहेन विद्युत, यजेन स्तनयित्नु एवं वौषटतः वर्षणं भवति। अस्यां प्रक्रियायां वज्रस्य का आवश्यकता अस्ति, अन्वेषणीयः।

स्फ्यस्य अन्ये विनियोगाः अपि सन्ति। अध्वर्युः स्फ्येन वेदिं परिलिखति येन अस्मिन् क्षेत्रे असुराणां प्रवेशं न भवति।

स्फ्यस्य कपालेन सह किं सम्बन्धं भवितुं शक्यते। स्फ्यशब्दस्य निरुक्तिः स्पष्टतया न ज्ञातमस्ति। पुराणेषु कपालस्फोटः शब्दः प्रचलति। वषट्कारस्य कपालस्फोटशब्देन सह तादात्म्यं अस्ति, अयं प्रतीयते।

संदर्भाः

इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्धाऽभवत्तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा यावद्वाथ यत्र प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शरोऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रोऽभवत् [१]  ततो द्वाभ्यां ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः संव्याधे यूपेन च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः  - माश १ २

स यत्स्फ्यमादत्ते । यथैव तदिन्द्रो वृत्राय वज्रमुदयच्छदेवमेवैष एतं पाप्मने द्विषते भ्रातृव्याय वज्रमुद्यच्छति तस्माद्वै स्फ्यमादत्ते । माश १,,,३ ।

वज्रो वै स्फ्यो ब्राह्मणश्चेमं पुरा यज्ञमभ्यजूगुपतां वज्रो वा आपस्तद्वज्रमेवैतदभिगुप्त्या आसादयति स वा उपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छत्यथ यन्निहित एव स्फ्यो प्रोक्षणीरासादयेद्वज्रो ह समृच्छेयातां तथो ह वज्रो न समृच्छेत् – १.२.५.२०

अथ तृणमन्तर्धाय प्रहरति । नेदनेन वज्रेण संशितेन पृथिवीं हिनसानीति तस्मात्तृणमन्तर्धाय प्रहरति [१५] स प्रहरति । पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषमित्युत्तरमूलामिव वा एनामेतत्करोत्याददानस्तामेतदाहौषधीनां ते मूलानि मा हिंसिषमिति व्रजं गच्छ गोष्ठानमित्यभिनिधास्यन्नेवैतदनपक्रमि कुरुते - १.२.४.[१६]

सोमक्रयणी - अथ स्फ्यमादाय परिलिखति । वज्रो वै स्फ्यो वज्रेणैवैतत्परिलिखति त्रिष्कृत्वः परिलिखति त्रिवृतैवैतद्वज्रेण समन्तं परिगृह्णात्यनतिक्रमाय  [५] स परिलिखति । अस्मे रमस्वेति यजमाने रमस्वेत्येवैतदाहाथ समुल्लिख्य पदं स्थाल्यां संवपत्यस्मे ते बन्धुरिति यजमाने ते बन्धुरित्येवैतदाह - ३.३.१.[६]

खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत्तस्मात्खादिरो यूपो भवति खादिर स्फ्यो। माश ,१२

अथास्मै ब्राह्मण स्फ्यं प्रयच्छति । अध्वर्युर्वा यो वाऽस्य पुरोहितो भवतीन्द्रस्य वज्रोऽसि तेन मे रध्येति वज्रो वै स्फ्यः स एतेन वज्रेण ब्राह्मणो राजानमात्मनोऽबलीयांसं कुरुते - ...१५

स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति - तैसं ...

अथ यत् स्फ्यो , वज्रो वै स्फ्यो , वज्रेणैवैनं स्तृणुते - मै ..

 पशवो वै घृतं , पशवः पदं , वज्रं स्फ्यो, यत् स्फ्येन पदं परिलिखति वज्रेण वा एतद्यजमानाय पशून् परिगृह्णाति, मै ..

मूलं वै रक्षांस्यनूत्पिबन्ति, यन् नखेन छिन्द्यात् कुनखी स्यात्, स्फ्येन छिनत्ति, वज्रो वै स्फ्यो, वज्रेणैव रक्षांसि हन्ति-मै ..१०

स्फ्यं प्रयच्छति, वज्रो वै स्फ्यो , वज्रेण वा एतद् राष्ट्रं रन्धयते...... बलिं हरन्ति, तेन स्फ्येनाधिदेवनं कुर्वन्ति, तत्र पष्ठौहीं विदीव्यन्ते - मै ..

यं वा अमुमिन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधाभवत् , यदग्रं तेजा आसीत्स स्फ्योऽभवत् , यन्मध्यं स रथो , यज्जघनं स यूपः, स्फ्येन परिलिखति, रथाक्षेण विमिमीते, यूपो भवति, वज्र एवैष संभ्रियते ,। मै ,, ।। 

बार्हस्पत्यौदनम् -- खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥शौअ ११.३.९

क ३९. , ४७.

तै १..१०.

तै ३..१०

तै ३.२.१०.

अपर आग्नीध्रः स्फ्यं चेध्मसंनहनानि चान्वारभेते ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति प्रसूतो ब्रह्मणाश्रावयति आश्रावय इति ओश्रावय इति वा अस्तु श्रौषट् इत्याग्नीध्रः प्रत्याश्रावयति तत्रैषो-ऽत्यन्तप्रदेशो यत्र क्व चाध्वर्युराश्रावयेन्नित्यमेवाग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन् स्फ्यँ सेध्मसंनहनमूर्ध्वं धारयमाणः प्रत्याश्रावयति भारद्वाजश्रौतसूत्रम् २.१५.