PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

 

स्वर्, सुवर्

त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः।

चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम्॥ १.०५२.१२

यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता।

तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम्॥ १.१२९.०२

स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम्।

स्तोमं यज्ञं चादरं वनेमा ररिमा वयम्॥ २.००५.०७

अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः।

अविन्दद्गा अपः स्वः॥ ५.०१४.०४

इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः।

हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये॥ ५.०४६.०३

प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः।

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति॥ ५.०८३.०४

शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः।

शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः॥ ७.०३५.०७

दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे।

इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः॥ ७.०४४.०१

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति।

येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे॥ ८.०५०.०८

अन्यव्रतममानुषमयज्वानमदेवयुम्।

अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः॥ ८.०७०.११

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि।

इन्द्रे अग्ना नमः स्वः॥ ८.०७२.१५

अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत्।

अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः॥ ८.०८९.०४

पवमान महि श्रवो गामश्वं रासि वीरवत्।

सना मेधां सना स्वः॥ ९.००९.०९

शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु।

इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः॥ ९.०७६.०२

सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये।

आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते॥ १०.०२७.२४

उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा।

इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः॥ १०.०३६.०१

सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि।

बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार॥ १०.०६८.०९

येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः।

यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम॥ १०.१२१.०५

अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम्।

अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा॥ १०.१३८.०२

तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि।

त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः॥ १०.१६७.०१

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।

दिवं च पृथिवीं चान्तरिक्षमथो स्वः॥ १०.१९०.०३

 

१. (प्रजापतिर्देवानब्रवीत् ) अथ यदि सामतः (यज्ञोभ्रेषं नीयात् ) स्वस्स्वाहेति आहवनीये जुहवाथ । सैव तत्र प्रायश्चित्तिः । जै १,३५८ ।

२. न्द्रः स्वाहा पिबतु यस्य सोम इति(ऋ. ३.५०.१) सूक्तमन्तो वै स्वाहाकारोऽन्तो नवममह......र्चाम तद्वावृधानं स्वर्वद्(ऋ. १.१७३.१) इत्यन्तो वै स्वरन्तो नवममह। ऐ ,२०

३. इमे वै लोकाः स्वः । काठ २६, , क ४०,५ ।

४. उपक्षरन्ति मधुनो घृतस्य कुल्याः पूर्णास्सदमक्षीयमाणाः । तदग्निवैश्वकर्मणस्स्वर्देवेषु नो दधत् । काठ ४०,१३।।

५. वसोर्धारा --  स्वरश् मे श्लोकश्च मे .... ज्योतिश्च मे सुवश्च मे ( यज्ञेन कल्पताम् ) । तैसं ,,,

६. दिवस्स्वस्संतनु । काठ ३९,८ ।

७. क्रमध्वम् अग्निना नाकम् उख्य हस्तेषु बिभ्रतः दिवः पृष्ठ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम्  ......दिवो नाकस्य पृष्ठात् सुवर्ज्योतिरगामहम् ।सुवर् यन्तो नापेक्षन्त द्या रोहन्ति रोदसी  ... अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् तैसं ,,,-२ ।

८.   विष्णुक्रमः - अगन्म स्वरिति देवा वै स्वरगन्म देवानित्येवैतदाह सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह - । माश , , , १४ ।।

९. सप्तहोत्रा वै देवा स्वरायन् । मै १,,; काठ ९,१४ ।

१०. सुवरसि, सुवर्मे यच्छ, दिवं यच्छ । तैसं ,,,

११. सुवरित्यसौ (द्यु-) लोकः । तैआ ७, , ; तैउ १,,१ ।

१२. यज्ञतन्वाख्या इष्टकाः-- सिन्धुर् अवभृथम् अवप्रयन् समुद्रो ऽवगतः सलिलः प्रप्लुतः सुवरुदृचं गतः ( सोमः )। तैसं ,,,

१३. स्वरिति व्याहृतिः । तदसौ लोकः, आदित्यो देवता, त्रिष्टुप् छन्दः, पञ्चदशस्तोमो, बृहत् सामादित्या देवता, चन्द्रमाश्च नक्षत्राणि च । जै ३, ८७ ।

१४. स्वरिति सामभ्योऽक्षरत् स्वः स्वर्गलोकोऽभवत् । ष १, ५ ।

१५. स्वर्गोलोक स्वर् । जै ३,६९ ॥

[स्वर ,सुवर्

अमृत- ४२, जै १.१३२

४६; मै १.११.३

आदित्य- ३८४; तैआ ७.५.२, तैउ १.५.२

षं स्वश्च धीमहीत्ययं वै लोक इषमित्यसौ लोकः स्वरित्युभावेवैतया लोकावारभन्ते - ६.७

१४४, जै १.३६४

१६९, तै २.२.४.३

१७७-काठ ६.७

स्वरित्यौ (द्यु-)लोकः - काठसंक ४७.४,

स्वयमातृण्णासु गायति ....  एतासु व्याहृतिषु गायति भूरिति वा अयं लोको भुव इत्यन्तरिक्षलोकः स्वरित्यसौ लोक एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति - माश ८.७.४.५, भूरिति वा अयं लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः ( ) मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते, इति भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते। भूरिति वा ऋचः भुव इति सामानि सुवरिति यजूंषि () मह इति ब्रह्म ब्रह्मणा वाव सर्वे वेदा महीयन्ते, इति भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम्  - तैआ ७.५.१, तैउ १.५.१

भूरित्येवर्ग्वेदस्य रसमादत्त सेयं पृथिव्यभवत् तस्य यो रसः प्राणेदत्सोऽग्निरभवद्र सस्य रसः भुव इत्येव यजुर्वेदस्य रस-मादत्त तदिदमन्तरिक्षमभवत् तस्य यो रसः प्राणेदत्स वायुरभवद्र सस्य रसः स्वरित्येव सामवेदस्य रसमादत्त सोऽसौ द्यौरभवत्तस्य यो रसः प्राणेदत्स आदित्योऽभवद्रसस्य रसः अथैकस्यैवाक्षरस्य रसं नाशक्नोदादातुमोमित्येतस्यैव सेयं वागभवत् ओमेव नामैषा तस्या प्राण एव रसः - जैउ १.१.१.५

१८०; जै ३.१०६

भूरिति वै प्रजापतिः इमामजनयत भुव इत्यन्तरिक्षं स्वरिति दिवमेतावद्वा इदं सर्वं यावदिमे लोकाः.... भूरिति वै प्रजापतिः ब्रह्माजनयत भुव इति क्षत्रं स्वरिति विशमेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विट्.....भूरिति वै प्रजापतिः आत्मानमजनयत भुव इति प्रजां स्वरिति पशूनेतावद्वा इदं सर्व यावदात्मा प्रजा पशवः  वै भूर्भुव इति एतावतैव गार्हपत्यमादधात्यथ यत्सर्वैरादध्यात्केनाहवनीयमादध्याद्द्वे अक्षरे परिशिनष्टि तेनो एतान्ययातयामानि भवन्ति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवः स्वरिति तान्यष्टावक्षराणि सम्पद्यन्तेऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः - माश २.१.४.१३

यजुस्-३०; तैआ ७.५.२, तैउ १.५.२

अथ प्राङ्प्रेक्षते स्वरभिविख्येषमिति परिवृतमिव वा एतदनो भवति तदस्यैतच्चक्षुः पाप्मगृहीतमिव भवति यज्ञो वै स्वरहर्देवाः सूर्यस्तत्स्वरेवैतदतोभिविपश्यति- माश १.१.२.२१

रोहिण्यां स्वर्गकामस्यादध्यात् , रोहिण्यां वै देवाः स्वरायन् , त्स्वरेवैति - मै १.६.९

ज्योतिस- ३६; जै २.२३७

व्यान- १७; तैआ ७.५.३, तैउ १.५.३

सामन्- ६५; ष १.५

स्वरिति सामानि (अधीते) काठसं ४७.६

सामवेद- ५, ऐआ १.३.२,

६ जै १.३५७  द्र.] ।

स्वर

१. अनन्तो वै स्वरः । तां १७,१२,३ ।

२. ( देवाश्चर्षयश्च ) तैर् ( स्वरैर् ) एनम् (आदित्यम् ) अस्पृण्वन् यदस्पृण्वंस्तत् स्वराणां स्वरत्वम् । जै २, ३८६ ।।

३. न्यूनो वै स्वरः । जै १, ३५६ ।

४. य आदित्यस्स्वर एव सः । जैउ ३,,,१ ।

५. यः कश्च गेष्णः स स्वरः । ऐआ २, , ६॥ [र-

अन्तरिक्ष- ९१; जै १.३०७

अहन्- ४२; ऐआ २.२.४

आत्मन्--३९; जै १.३००

आदित्य- ९८; ऐआ ३.२.५

दिव्- ८१; ऐआ ३.२.५, शांआ ८.८

देव- २७६; जै १.१२७, १.१६६

पशु-- १२३; जै २.८, गो २.३.२२, २.४.२

प्रजापति- १८२; ष ३.७

प्राण-१०५; जै १.३०१, १.३०७, तां ७.१.१०, १७.१२.२

२१२; जै १.१२३, १४०, १६४, २१५, २.१६८, ३.१९४, २२९, तां २४.११.९

ब्रह्मवर्चस- ७: जै १.३२३

श्री- १८; जै १.२२९, ३.४७,

अथ हैतद्बहिःश्रि। योऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति श्रीर्वै स्वरो बाह्यत एव तच्छ्रियं धत्तेऽशनायुको भवति अथ हैतदन्तःश्रि। योऽयं संधायौष्ठा उच्चैः स्वरवदाश्रावयति श्रीर्वै स्वरोऽन्तरत एव तच्छ्रियं धत्तेऽन्नादो भवति - माश ११.४.२.१०

सामन्- १०, जै १.११२

११, १२,

सोम- ५९ गो १.५.१४ द्र.1

स्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितम् इत्येतदन्यच्चतुर्थमन्तस्था रूपमिति स्माऽऽह ह्रस्वो माण्डूकेयः - ऐआ ३.२.१, शांआ ८.१ द्र।

उद्गीथब्राह्मणम् - - तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं । माश १४,,,२७

स्वर-सामन्

१. इमान्वै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्वरसाम्नां ( अहर्विशेषाणां ) स्वरसामत्वम् । ऐ ४.१९

२. स्वर्भानुर् वा आसुर आदित्यम् तमसा अविध्यत् तस्य अत्रयस् तमो अपजिघांसन्त एतम् सप्तदश स्तोमम् त्र्यहम् पुरस्ताद् विषुवत उपायन् तस्य पुरस्तात् तमो अपजघ्नुः तत् परस्ताद् असीदत् एतम् एव त्र्यहम् उपरिष्टाद् विषुवत उपायन् तस्य परस्तात्तमो अपजघ्नुः - कौ २४,

३. त्रयः स्वरसामानो विश्वजिन्महाव्रतश्चातिरात्रश्च । ष ३,१२ ॥

४. सप्तदशाः स्वरसामानो भवन्ति..... प्रजापतिर्वै सप्तदशः । जै २,३८६ ॥

५.  स्वर्गो वै लोकः स्वरः साम स्वर्गे लोके स्वरे सामन्य् आत्मानम् अतिसृजा इति - कौ १२,

स्वर्भानुर्वा आसुर आदित्यं तमसाऽविध्यत्तं देवाः स्वरैरस्पृण्वन् यत् स्वरसामानो भवन्त्यादित्यस्य स्पृत्यै तां , ,

अथो हैतौ देवतत्त्वाव् एव यद् विश्वजिदभिजितौ। अन्नम् एतद् यत् स्वरसामानः।  - जै २.७

अथ यत् स्वरसाम्न उपयन्ति। अप एव देवता यजन्ते। आपो देवता भवन्ति। अपां सायुज्यं सलोकतां जयन्ति॥ - माश १२.१.३.१३

यम् वै सूर्यम् स्वर् भानुस् तमसा अविध्यद् आसुरः अत्रयस् तम् अन्वविन्दन् अह्य् अन्ये अशक्नुवन्न् इति स्वर सामानो वा एतेन अभ्युक्ताः  - कौ २४.४, जैउ ४.१२.१.३

आपो वा अनुष्टुप् आपः स्वर सामानः अद्भिर् हि इदम् सर्वम् अनुस्तब्धम् उभयतो ह्य् अमुम् आदित्यम् आपो अवस्ताच् उपरिष्टाच् कौ २४.४

अयं वै लोको ऽभिजिद् असौ विश्वजित्। पशव स्वरसामानः। तद् यद् अभिजिता स्तुत्वा स्वरसामभि स्तुवते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। अथ यत् स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्माद् अमुतः प्रदानात् पशवो जीवन्ति।  - जै २.८, गो २.३.२२, ४.२

आत्मा वै पृष्ठ्यष् षडहः, प्रजा स्वरसामानः। प्रजो वा अस्मत् परेति। - जै २.३८८

को वै प्रजापतिः प्रजापतिः स्वर सामानः कौ २४.४, ५, ९

शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते - कौ २५.१२, १३, तां २४.१४.४, २५.१.८

इमान्वै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं - ४.१९

ऽग्निर् अभिजिद्, विश्वे देवा स्वरसामान, आदित्यो विषुवान्, इन्द्रो विश्वजिद् - जै २.४२९

स्वरान्त-- स्वरान्तेन वै त्रियहेण प्रजापतिर्देवानसृजत । जै ३,३११ ।

स्वार

१. तदेतदेकमेव साम स्वारमेव । य एवायं (वायुः ) पवते तत् .... स्वारं प्राणमुपजीवन्ति । जै १.३००

२. स्वारमन्त्यं भवति। जै १, ३०९ ॥ । °र-

अग्नि-- ७६ १;

आग्नेय - १३;

प्राण- २०९;

वामदेव्य- १७ द्र, ]

स्व-राज

१. इयं (पृथिवी) विराडसौ (द्यौः) स्वराट् । मै ३, ,६ ।

२. स्वराड् वै तच्छन्दो यत्किञ्च चतुस्त्रिंशदक्षरम् । कौ १७, १ ।

३. स्वराडस्यभिमातिहा । तैसं १, ,,; क २,५ ॥ [ राज्-

अश्वमेध- ३०;

उदीची-- ३५;

दिव्- ३५:४२,४४;

देवलोक- २४;

सूर्य- ४८ व.] ।

स्वाराज्य

१. अथ यस्सप्तममह स्वाराज्यं स लोकः । जै २,३४८ ।

२. अथैतत्स्वाराज्यं यदनुष्टुप् । जै २, ९४ ।

३. एषो ह वै छन्दसां स्वाराज्यं लोकमानशे यदनुष्टुप् । जै २, ८६ ॥

४. तद्वै स्वाराज्यं यस्यान्यो न व्यवेष्टि निविन्न प्रतिराजा । काश ७, , , १९ ॥ [ज्य

अतिरात्र- १६;

आदित्य- ९, १३७; १३८;

एकविंश- २७;

चतुस्त्रिशिन्-;

छन्दस्- ४७;

दिव- ७;

प्रजापति- १६८;

प्रतीची- ७;

प्लक्ष- ७;

बृहत् - ९;

बृहती- १७;

रुद्र- ४;

वाजपेय- १२;

वृत्रतुर्- १ द्र.] ।

स्वरु- एतस्माद् (यूपात) वा ऽएषो ( शकलः) ऽपछिद्यते तस्यैतत्स्वमेवारुर्भवति तस्मात्स्वरुर्नाम ।।

माश ३,,,२४ ॥ [रु-

वज्र- ४२ द्र.] :